________________
झानसारे स्थिरताऽष्टकम्
अस्थिरतायास्त्यागे प्रवृत्तिर्यथा स्यादिति शिष्यहितचिन्तयाऽस्थिरताया अपायान्तरमाह-- ज्ञानदुग्धं विनाश्येत लोमविक्षोभकूर्चकैः । अम्लद्रव्यादिवाऽस्थैर्यादिति मत्वा स्थिरो भव ॥ २ ॥
ज्ञानेति । अम्लद्रव्यात-अम्लं स्वनामख्यातो रसविशेषः, तद्रव्यमामलक्यादिकम , तत्प्राप्येति यब्लोपे पञ्चमी । तत इव ।
अस्थैर्यात-उक्तरूपाच्चाञ्चल्यात् , · तत्प्राप्येत्यर्थः । लोभविक्षोभकूर्चकै:-लोभः परस्वग्रहणेच्छा, तज्जनिता ये विक्षोमाश्चित्तविकलतास्ते कूर्च काः क्षीरविकारविशेषा इव, तैः कृत्वा, तद्रूपेणेत्यर्थः । धान्येन धनवानितिवदभेदे तृतीया बोध्या। ज्ञानदुग्धम्-ज्ञानं शुद्धवात्सुखजनकत्वानाशसाम्याच दुग्धमिव, तत् , विनाश्येत -स्वयमेव नाशं प्राप्नुयात् । विकृतं हि विनष्टमेव कथ्यते इति हृदयम् । यथाऽम्लद्रव्यसम्पर्केण दुग्धं कूर्चकरूपतां प्राप्तं विनश्यति-स्वस्वरूपं गुणांश्च त्यजति, तथाऽस्थैर्यादात्मनो लोभपरिणामास सज्ज्ञानरूपं स्वरूपं नाहनस्वरूपजन्यं सुखाऽनुभवं च त्यजतीत्यर्थः । इति-उक्तप्रकारमस्थैर्यदोषम् , मत्वा-विचार्य, स्थिर:-अन्तर्मुखेन्द्रियादिवृत्तिः, भवेति शिष्यमुद्दिश्याऽपायदर्शनद्वारेण हितोपदेशः ॥ २ ॥
सर्वात्मना स्थैर्यार्थ शिष्यप्रवृत्तिमनसाऽन्तःस्थिरतां विना बहिःस्थिरतामात्रेण न निजेष्ट फललाभसम्भव इति शिष्यमुपदिशन्नाह
अस्थिरे हृदये चित्रा वाङ्नेत्राऽऽकाग्गोपना । पुंश्चल्या इव कल्याणकारिणी न प्रकीर्तिता ॥ ३ ॥