________________
भद्रकरोदमाख्यव्याख्या विभूषिते
,
"
इत्यमरः । भ्रान्त्वा भ्रान्त्वा - आभीक्ष्ण्येन भ्रमन् विषयाऽटव्यामित्यर्थाल्लभ्यते । विषयेषु पुनः पुनरिन्द्रियमनः प्रभृतीन् व्यापारयनिति यावत् । किं विषीदसि - किं दैन्यमनुभवसि ? । न विषादः कार्य इत्यर्थः । कृतश्रमोऽप्यकृतार्थो हि विषीदत्येव किन्त्वस्थाने श्रमो विषादमात्रफल एव । विषयेषु च सुखेच्छया कृते प्रयासे न तल्लाभः, विषयाणां वस्तुतः सुखजनकत्वाभावात् । अत एव दुष्परिणामा एव ते । ननु तर्हि किमन्यत्करोमि, इष्टसिद्ध्यर्थमुपायान्तराभावादिति चेन्न । तदाह-स्थिरता- विविधविषयेविन्द्रियमनःप्रभृतीनां मुहुर्मुहुरनभिनिवेशः, स्थिरेन्द्रियचितादिवृत्तितेत्यर्थः । विषयेष्विन्द्रियमनःप्रभृतीनामनादर इति यावत् । उपशम इति सारार्थः । स्त्रसन्निधौ - स्वसमीपे, स्वात्मस्थमित्यर्थः । एवकारेण स्थानान्तरव्यवच्छेदः । निधिम् - निघानम्, सुखन्यासमित्यर्थः । दर्शयिष्यति - गोचरीकारयिष्यति । सुखं स्वात्मस्थ - मेव, नाऽन्यत्र विषयादौ । विषयसुखस्याऽज्ञानकल्पितस्वान्मिथ्या.. रूपत्वात् । अतस्तदर्थं विहितः श्रमो विषादपरिणाम एव । आत्मस्थं सुखं च नोक्तरूपेण भ्रमणेन लभ्यम् अपि तु मनःप्रभृतीनामन्तमुखवृत्यात्मक स्थिरतया । तादृशवृत्त्या हीन्द्रियनिग्रहादिपूर्वकमग्नतालाभे शाश्वताऽखण्डानन्दात्मकपूर्ण ताख्यनिधिलाभः । तस्मास्थिरो भव, मा विषीद । एतेन यत्स्वसमीपस्थमेव तदर्थमन्यत्र भ्रमणं मूर्खतामेव सूचयतीति ध्वन्यते । चञ्चलचित्तस्य न कदापि सुखं किन्तु विषाद एव । स्थिरस्यैव च तदिति सारार्थः । स्थिरतैव सर्वेष्टमूलमिति हृदयम् ॥ १ ॥
२८