________________
ज्ञानसारे स्थिरताऽष्टकम्
२७
च शुक्लध्यानं तत्र मन्नाय, तस्मै-कृपापूर्णदृशे शमप्रदवाचे च, योगिने-सम्यग्दर्शनज्ञानचारित्राख्ययोगवते, अन्यस्याऽतादृशत्वात् , किश्च शुभज्ञानादिमग्नो योग्येव भवति । तस्यैव च दृष्ठिः कृपापूर्णा गिरश्च शमप्रतिपादिका इति भावः । नमः-नमस्कारोऽस्तु । सर्वलोकहितत्वाद्धितोपदेशकत्वाद्धिताऽनुष्ठानप्रवृत्तत्वाच्च लोकगुरुत्व त्सोऽवश्यं नमस्करणीयः । स एव च नमस्करणीय इति तादृशमहिम्नो लाभोऽपि ज्ञानेनेति शिष्यहृदयाऽऽवर्जनेऽपि तात्पर्यम् ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यासप्रवर श्रीयशोभद्रविजयगणिवरशिष्यपन्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रङ्करोदयाख्यव्याख्यायां द्वितीयं मग्नाऽष्टकं समाप्तम् ॥३॥
अथ स्थिरताऽष्टकम् ॥ ३॥ ननु सुखार्थमेव यते, न च सफलो भवामि, प्रत्युत विषीदाम्येव । भवता च तदुपायत्वेन मग्नतोपदिश्यते । तत्कारणं चेन्द्रियनिग्रहादिकं प्रयस्याऽपि साधयितुं नाऽलमस्मीति व्यग्रं शिष्यमुपलक्ष्य जातदयः स्निग्धया गिरोपसान्त्वयंस्तदेकोपायं स्थिरतामाहवत्स ! किं चञ्चलम्बान्तो भ्रान्त्वा भ्रान्त्वा विषीदसि । निधि स्वसनिधावेव स्थिरता दर्शयिष्यति ॥१॥
वत्सेति । कृपया स्नेहेन च कोमलामन्त्रणमिदम् । एतेन स्वस्य शिष्यव्यग्रतोद्धारचिन्ता सूच्यते । चञ्चलस्वान्तः-अस्थिरमनाः सन् । सुखार्थं विषयेष्वितस्ततो व्यासक्तमनाः + विषये कथं सुखं लभेयेति व्यग्रमना वेति यावत् । “स्वान्तं हृन्मानसं मन".