________________
२६
भद्रङ्क रोदयाख्यव्याख्याविभूषिते
7
:
क्रियन्त इत्यर्थः । अपिना सूचितमर्थमेवाह - तत्र - यस्य विन्दोरपि महाकथास्तस्मिन् ज्ञानपीयृपे - ज्ञानमेव शमशैत्यपोषणात्पीयूषममृतं तत्र । "पियूषममृतं सुधे " त्यमरः । सर्वाङ्गमग्नताम्सर्वाङ्गैः सर्वप्रकारैः कृत्वा या मग्नता, ताम् । सर्वथा शुद्ध चिन्मयाऽवस्थानमित्यर्थः । किं स्तुमः १ - नैव स्तुम इत्यर्थः । चिन्दोरपि महाकथाविषयत्वात्समग्रस्य तस्य वर्णनस्याशक्यत्वादिति भावः तादृशज्ञानार्जने सर्वैरेव यतितव्यम् । तत एव तन्मग्नतासुखसम्पत्तेरिति तात्पर्यम् ॥ ७ ॥
,
तादृशज्ञानवांश्च दुर्लभत्वादुत्तमोत्तमत्वाच्च सर्वैरेव नमस्करणीय इति शिष्य भक्तिविवृद्धये योगिनमस्कारपूर्वकमुपसंहरति
---
यस्य दृष्टिः कृपावृष्टिर्गिरः शमसुधाकिरः । तस्मै नमः शुभज्ञानध्यानमग्नाय योगिने ॥ ८ ॥ इति महामहोपाध्यायश्रीयशोविजयोपाध्यायकृते ज्ञानसारे द्वितीयं मग्नाष्टकं समाप्तम् ॥ २ ॥
यस्येति । यस्य-यत्प्रकारस्य शुभज्ञानध्यानमग्नस्य । दृष्टिःअवलोकनं तत्साधनं नेत्रं च । कृपावृष्टिः - यत्पश्यति तत्कृपयैवेति सर्वत्र कृपां वर्षयतीति कृपावर्षणात्मिका कृपापूर्णा चेत्यर्थः । तथा, यस्य, गिरः- वाचः, शमसुधाकरः-शम एव सर्वतृप्तिकरत्वात्सुधा, तां किरन्ति प्रतिपादयन्ति सिञ्चन्ति वा प्राणिष्विति तादृश्यः । उपशमप्रदा इत्यर्थः । तत्र भन्या हेतुगर्भं विशेषणमाह-शुमज्ञानध्यानमग्नाय - शुभं निरपायं शुद्धं च यज्ज्ञानं सम्यग्ज्ञानं ध्यानं
--