________________
ज्ञानसारे मग्नाऽष्टकम्
ज्ञानमग्नतासुखम् , प्रियाऽऽश्लेषैः-प्रिया प्रियतमा तस्या आश्लेषा आलिङ्गनानि, एकस्य द्वयोर्वा तु कथैव का!, तै बहुभिरपीति बहुवचनेन ध्वन्यते । लक्षणया पियललनाऽऽलिङ्गनसुखैः, लोकदृष्टया सर्वोत्कृष्टत्वेन प्रसिद्धैरपीति हृदयम् । न-नैव, उपमेयम्उपमातुं योग्यम् , चन्दनद्रवैः-चन्दनस्य द्रवो लेपार्थं घर्षणेन कृतं द्रवद्रव्यम् , तैः । लक्षणया तल्लेपसुखैः, न-नैव, उपमेयमिति सम्बध्यते । अपिना प्रिया श्लेषसमुच्चयः । तवयस्याऽप्यज्ञानतः सुखबुद्ध्या कल्पितत्वात्क्षणिकत्वादुष्परिणामत्वादितश्च सुखाभासत्वेन वस्तुतः सुखरूपत्वाऽभावादिति भावः । अवर्णनीयमनुपमेयं च यद्भवति तदनुत्तमं भवतीति लौकिकसुखं विहाय तदर्थमेव यतनीयं प्रेक्षाकारिभिरिति हृदयम् ॥ ६ ॥
ज्ञानमग्नतासुखगौरवं हि ज्ञानगौरवादित्युपजीव्यतया ज्ञानं शिष्याऽभिमुखीकरणार्थ स्तौति
शमशैत्यपुषो यस्य विग्रुषोऽपि महाकथाः । किं स्तुमो ज्ञानपीयूषे तत्र सर्वाङ्गमग्नताम् १ ॥७॥
शमेति । यस्य- यादृशस्य, शमशैत्यपुपः-शमस्तृष्णाक्षय एव भवतापशमनाच्छैत्यं शीतलता, तां पुष्णात्युपचाययतीति तत्तस्य ज्ञानपीयूषस्य, अतः शमशैत्यपोषणादेव हेतोः, विपुषः-बिन्दोरपि, लबमात्रस्याऽपीत्यर्थः । आत्मलग्नस्येत्याल्लभ्यते। महाकथा:महत्योऽतिविस्तृततराः कथाः प्रवन्धग्रन्थाः, महत्यः प्रशस्तयो वा। सन्तीति शेषः । बहवो ज्ञानवर्णनात्मका महाप्रन्थाः सन्ति, मुखेन चाऽपि तैस्तैर्विद्वद्भिरतिविस्तृतं दृष्टान्तादिना ज्ञानमाहात्म्यवार्ताः