________________
भद्रङ्करोदयाख्यव्याख्या विभूषिते
सुखरूपा मनोवृत्तिरिति यावत् । सुखमग्नतेति हृदयम् । तस्या विवृद्धिर्विशेषेणोत्कर्षः । भाषिता - प्रतिपादिता । यथायथा संयम कालो वर्धते, तथातथा तेजोलेश्या विवर्षत इत्यर्थः । तद्विषये विस्तरश्च भगवती ग्रन्थादेवाऽवसेयः । सा तादृशी तेजोलेश्याविवृद्धि:, इत्थम्भूतस्य - इमं ज्ञानमय परब्रह्ममग्नताख्यं प्रकारं प्राप्तस्य, युज्यते - सङ्गतिमईति नाऽन्यस्येति सर्वं वाक्यं सावधारण मिति न्यायाल्लभ्यते । तेजोलेश्याविवृद्धये न चारित्रपर्यायवृद्धिमात्रं पर्याप्तम्, ज्ञानमयाऽऽत्ममग्नतां विना केवलया तया तदलाभादिति मग्नतैव सर्वशुभमूलमिति मग्नताया महान् महिमेति साऽवश्यं साध्या सत्प्रयासेनेति भावः ॥ ५ ॥
२४
पौगलिक सुख लिप्सया ज्ञानमग्नतासुखाऽनादरो मा भूदिति करुणापर : शिष्यं हितमुपदिशन् ज्ञानमग्नताया अवर्णनीयत्वमनुपमत्वं चाऽऽह
ज्ञानमनस्य यच्छर्म तद्वक्तुं नैव शक्यते ।
नोपमेयं प्रियाssश्लेषैर्नाऽपि तच्चन्द्रनद्रवैः ॥ ६॥
ज्ञानेति । ज्ञानमग्नस्य - ज्ञानमये आत्मनि मग्नस्य तदेकतानस्य, शुद्धसम्यग्ज्ञानिन इत्यर्थः । आत्मज्ञानिन इति यावत् । यत्यत्प्रकारम्, शर्म-सुखम्, 66 शर्म सातसुखानि चे "त्यमरः । तत्तादृशं सुखम्, वक्तुम्-वर्णयितुम्, न नैव शक्यते । वाचामगोचरं तत्सुखमिति सारार्थः । तादृशसुखप्रतिपादन समर्थः शब्दो नास्तीति वागतीतं तत्सुखमनुत्तमत्वादिति भावः । ननु वाचकशदाभावेऽप्युपमया तद्वर्णनीयं स्यादिति चेन्न । तदाह- तद् - तादृशं
1