________________
ज्ञानसारे मग्नाऽष्टकम्
सुखस्यैव सत्त्वात् । हीनोऽधिकमिच्छति, न स्वधिको हीनमिति स्वभावसुखमग्नस्य तेष्वनादर इति तात्पर्यम् । कर्तृत्वभावविलये सति सर्वथा पुद्गल सम्बन्धो निवर्तते मूलाऽभावादिति कमोऽत्र सूच्यत इत्यपि बोध्यम् ॥ ४ ॥
मग्नताऽवश्यं साध्या, सा हीष्टमाघनमिति शिष्य बुबोध - यिषुर्मग्नतामाहात्म्यं कथयिष्यन्तस्यास्तेजोलेश्यामूलवमाह -
तेजोलेश्याविवृद्धिर्या माधो पर्यायवृद्धितः। भाषिता भगवत्यादो सेत्थंभूतस्य युज्यते । ५ ।।
तेज इति । भगवत्यादौ-भगवतीत्याख्यया ख्याते अन्थे श्रुतविशेषेऽन्यस्मिंश्च तादृशे अन्थे। माधोः-गृहीत चारित्रस्य चारित्रपालनेन गुणकक्षामारोहयतो मुनेः, पर्यायवृद्धितः चारित्राख्यस्य पर्यायस्य मासादिककमेण योत्तरोतरं कालवृद्धिः, ततो हेतोः । पर्यायः पदार्थस्याऽसहमग्यावद्व्यभावी च धर्मविशेषः । गुणस्तु सहभूर्यावद्रव्यभावी च धर्म इति विवेकः । तथापि गुणपर्याययोर्लो के समानार्थपरतया बहुशो व्यवहारो दृश्यते. यकि. श्चिदेतत् । गृहीतायां दीक्षायामात्मनश्चारित्राख्यः पर्यायो जायते, चारित्रं ह्यात्मनः संयमपरिणामः । अत्र च साधुपदसमभिव्याहारमहिम्ना पर्यायशब्देन चारित्राख्यः पर्याय एवं गृह्यते । तवृद्धरेव तेजोलेश्यावृद्धिहेतुत्वेन शास्त्रे प्रतिपादनाचेति बोध्यम् । यायत्पकारा, तेजोलेश्याविवृद्धि:-तेजश्चित्तसुखलाभलक्षणमित्युत्ते. स्तेजो मानसिकसुखविशेषः, तदाख्या या लेश्याऽऽशयविशेष