________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
परब्रह्मणि मग्नस्य श्लथा पौद्गलिकी कथा । क्वाऽमी चामीकरोन्मादाः स्फारा दाराऽऽदराः क्व च ॥४॥
परेति । परब्रह्मणि-परे सच्चिदानन्दमयत्वादुत्कृष्ट ब्रह्मण्यात्मनि, मग्नस्य-लीनस्य, जातसच्चिदानन्दमयनिजात्मसाक्षात्कारस्य जीवस्येति मिलितार्थः । पौद्गलिकी-पुद्गलानां स्रक्चन्दनाऽङ्गनादीनामियं सा, पुद्गलसम्बन्धिनीत्यर्थः । कथा-पुद्गलेभ्यः सुखं जायत इत्येवं प्रकार वार्ता, पुद्गलासक्तिर्वा, श्लथा-शिथिला, जायत इति शेषः । न रोचत इति यावत् । स्वभावसुखाऽपेक्षया पौद्गलिकसुखस्याऽनित्यत्वदुष्परिणामत्वादिनाऽतिनिकृष्टत्वात् । किञ्च पौद्गलिकतृष्णाक्षय एव स्वभावसुखमग्नता लभ्येति कुतः स्वभावसुखमग्नस्य पुद्गलकथा भवतु !, पुद्गलतृष्णायाः साकल्येन क्षयात् । नहि लब्धाऽमृतस्य पानीयवार्ताऽपि रोचत इति भावः । अत एव-अमी-स्वभावसुख मग्नस्य कृतेऽतिनिकृष्टत्वादत्यरुचिविषयत्वाद् दूरवर्तिनः, चामीकरोन्मादाः-सुवर्णादिलोकिकक्षणिकदुष्परिणामधनकृताश्चित्तविप्लवाः, धनमदा इति यावत् । सुवर्णादिधनाऽऽसक्ति जनितविप्लुतचित्ततेति हृदयम् , क्व-कुत्र ! भवन्विति शेषः । नैव क्वापि भवन्त्वित्यर्थः । स्फाराः-भूयांसो बलवन्तश्च, अधिकमुत्कटाश्चेति यावत् । दारादरा:-दारेषु स्त्रीषु विषये आदरा रुचयः, अङ्गनालिङ्गनाद्यभिलाषा इति यावत् । क्वकुत्र भवन्तु !, नैव कुत्राऽपि भवन्वित्यर्थः । चः समुच्चये । यस्य हि पुद्गलेष्वासक्तिस्तत्रैव धनमदोऽङ्गनाद्यभिलाषश्च । स्वभावसुखमग्ने विरक्ते निःस्पृहे च नैतेषामवसरः, सर्वोत्कृष्टस्व शाश्वताऽखण्डस्य