SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सानसारे मन्नाऽष्टकम् " तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिरि "ति च । एवञ्च तत्तद्भावकर्तृक एव भावानां परिणामः । आत्मा तु नित्यशुद्धबुद्धमुक्तपत्त्वस्वभावः पुष्करपला. शवनिर्लेप एव । ततश्वाऽऽत्मनः कर्तृत्वमज्ञानादहङ्काराऽऽसक्त्यादि. मूलमेव । तादृशज्ञानवतश्च कर्तृत्वं नैव परमार्थत इति सुष्ठतं कर्तृत्वं नाऽन्यभावानामितीति भावः । नन्वेतावताऽऽत्मनो निष्क्रि. यत्वभुक्तं भवतीति चेत् , एवमेतत् । तदाह-साक्षित्वम्-साक्षाद् द्रष्टुत्वम् , ज्ञातृत्वं वा । अबशिष्यते -अवशिष्टो भवति । क्रियानिषेधाद्धि द्रष्ट्रत्वमेव परिशेषादात्मनि लभ्यते । नहि यो निष्क्रियो भवति स निश्चेतनोऽपीति व्याप्तिः । अतः प्रवृत्त्युपरतस्य स्वस्त. भावस्थस्य चेतनम्याऽऽत्मनो द्रष्ट्रत्वं केन वार्यताम् ! । सच्चिदानन्दपूर्णो ह्यात्मा ज्ञानवशात्स्वस्वभावस्थः कियासु न प्रवर्तते, अत एव न लिप्यतेऽपि । किन्तु चेतनत्वात्तस्य तादृशक्रियाद्रष्टत्वमात्र. मेवाऽशक्यपरिहारत्वादवगन्तव्यम् । एवञ्च ऽज्ञानादेवाऽऽत्मनि कर्तृ स्वसन्निपातः, ज्ञाने सति वहङ्कारविलयात्साक्षिमात्रं स इति शारीरादिप्रवृत्तौ सत्यामपि स्वभावसुख मग्नोऽलिप्त एव भवतीति भावः । अत्र च प्रागिन्द्रियनिग्रहादिज्ञानादिना मग्नता, ततो विषयव्या. सङ्गभङ्गः, ततोऽहकारविलयादिना कर्तृत्वत्याग इति क्रमोऽपि सूचितो बोध्यः ॥ ३ ॥ ननु पौद्गलिकं सुखमपि सुखमेवेति किमिति ज्ञानिनः स्व. भावसुख मग्नस्य तत्राऽनादर इति विपतिपन्नं शिण्यमुपलक्ष्याह
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy