________________
भद्रङ्करोदयाख्यव्याख्याविभूषित
कथमध्यसम्भवात् । एवञ्च शुद्धममताऽसम्भविनी कस्याऽपि कदा. पीति चेन्न । ज्ञानिन सक्तेरमावादनासक्तिसद्भावे च विषयसम्पर्कम्याऽकिश्चित्करत्वादित्याह
स्वभावसुखमग्नस्य जगत्तवाऽवलोकिनः । कर्तृत्वं नाऽन्यभावानां साक्षित्वमवशिष्यते ॥ ३॥
स्वभावेति । जगनचाऽवलोकिन:-जगतो लक्षणया तत्स्थ. पदार्थस्य तत्त्वं याथात्म्यमनित्यत्वादिना दुष्परिणामत्वादिरूपं परमार्थमवलोकते सम्यग्ज्ञानसद्भावात्पश्यति जानातीत्येवंशीलस्तस्य, अवगतसांसारिकपदार्थपरमार्थस्य । सम्यग्ज्ञानिनस्तत्तद्भावकर्तृक एव परमार्थतस्तत्तद्भावानां परिणाम इत्येवं निश्चयदृष्टेरिति यावत् । अत एब, स्वभावसुख मग्नस्य-स्वभाव एव यत्सुखम् , तत्र मग्नस्त. देकतानः, तस्य । आत्मन आनन्दमयत्वात्सुखमात्मनः स्वभाव एक। तत्र ममता च नर्ते ज्ञानिनोऽन्यस्येति भावः । तादृशस्याऽऽत्मनः, अन्यभावानाम्-अन्ये स्वभावादितरे ये भावाः शरीरयात्राचारित्राद्यनुगुणक्रियाप्रवृत्त्यादिरूपास्तेषाम् , कर्तृत्वम्-इष्टसाधनतादिज्ञानपूर्वकं निर्वर्तकत्वं विधातृत्वं प्रवर्तकत्वं वा । न-नैव, सम्भवतीति शेषः । ज्ञानिनो ह्यहं करोमीत्यनभिमानात् , शरीरयात्राद्यर्थप्रवृत्तिश्च शरीरादेरेव नाऽऽत्मनः, निष्प्रयोजनस्वादिति विवेकसद्भावाच सर्वथैवाऽऽसक्तेरभावाच्च । आसक्त्यैव हि कर्तृत्वम् । यदुक्तम्-" यस्य नाऽइकृतो भावो बुद्धिर्यस्य न लिप्यते । हात्वाऽपि स इमाल्लोकान्न हनि न निवध्यते " इति । तथा