SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ शानसारे मग्नाऽष्टकम् यावत् । सञ्चारः प्रवृत्तिासङ्गो वा। विषयाऽभिमुखतेत्यर्थः । विषयोपभोग इति यावत् । हालाहलोपमः-हालाहलं विषमुपमा यस्य तादृशः । विषं चेतनामिव विषयव्यासक्नः सम्यग्ज्ञानं विनिहन्तीति न विनेन्द्रियमनोनिग्रहेण मग्नता कथमपि लभ्येति हृदयम् । तस्मात्तन्निग्रहे सदाऽपमादिना भाव्यमित्युपदेशे तात्पर्यम् । यद्वा पीताऽमृतस्य यथा न विषाद्भयम् , तथा चिन्मये मग्नस्य न विषयेभ्यो भयम् । अथवा यथा पीताऽमृते न विषाऽऽविष्टत्वं सम्भवति, तथा ज्ञानमये मग्नस्य विषयव्यासङ्गो न सम्भवति । अज्ञानस्य तन्मूलत्वादिति तात्पर्यम् । तस्मात्ताहशमग्नतायां सत्यां न पुनर्विषयेष्वभिष्वङ्गस्ते सम्भवतीति तादृशमग्नतायाः प्रच्युति मा शङ्कस्वेति शिष्यसमाश्वासनं मग्नताऽर्थवादश्च तत्र सोद्यमत्वायेति सूच्यते। यद्वा-ममतेत्यनन्तरमिष्टेति शेषः । तथा च योऽमृत. मिच्छति, तेन प्रागेव विषाद् दूरमपसर्तव्यम् । अन्यथा प्रागेव विषसम्बन्धे सद्यो मरणाऽवश्यंभावात्कोऽवतिष्ठेत योऽमृतं पिबेदिति तदिच्छाऽपूर्णैव तिष्ठेत् । तथा यस्य ज्ञानमये मग्नतेष्टा, तेन विषयपराङ्मुखेनैव भाव्यम् । विषयव्यासने हि तादृशलीनता सर्वथैवाऽलभ्या भवेदिति भावः । ज्ञानमये मग्नतायां सत्यां विषयव्यासङ्गो निवर्तते, नहि विना ज्ञानमिन्द्रियनिग्रहादिः साध्य इत्युभयोः सहैव यथाशक्ति विधिरिति ध्वनिस्तु सहृदयहृदयसाक्षीति ॥ २॥ ननु शरीरिण ऐन्द्रश्रीसुखममस्य सच्चिदानन्दपूर्णस्य वा विषयान्तरसञ्चारो दुर्निवारः, शरीरयात्रार्थ चारित्राऽनुगुण्येन च क्रियासु प्रवृत्तेरावश्यकत्वात् , तादृशप्रवृत्तेश्च विषयसम्पर्क विना
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy