SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १८ भद्रङ्करोदयाख्यव्याख्याविभूषिते मग्नताऽर्थवादम्, तादृशमग्नताऽभिलाषुकेण विषयव्यासङ्गः प्रयस्य निरसनीय इत्यप्रमादोपदेशं च शिष्यहितार्थमाह यस्य ज्ञानसुधासिन्धौ परब्रमणि मग्नता । विषयान्तरसञ्चारस्तस्य हालाहलोपमः ॥ २ ॥ .- यस्येति । यस्य-याहशस्य विलक्षणपुण्यशालिन आत्मनः, ज्ञानसुधासिन्धौ-ज्ञानमेवाऽलौकिकतृप्तिप्रदत्वान्मुक्तिरूपाऽमराऽजराऽवस्थाप्रदत्वाच्च सुधाऽमृतम् , तस्य चाऽपरिमितत्वादतिविपुलाधाररूप इति सिन्धुरिव सिन्धुः पारावारः, तस्मिन् शुद्धाऽनन्तचैतन्यात्मके इति यावत् । विशेष्यमाह-परब्रह्मणि-परं निर्विकल्पस्वाद्विशुद्धत्वात्स्वरूपेणाऽवभासमानत्वाच्च सर्वोत्कृष्टं यद्ब्रह्म निश्चयनयाऽभिमतः प्रतिपर्यायव्यापक आत्मा, तस्मिन् । मनताइन्द्रियप्रत्याहारमनःसमाधानपूर्वकचिद्विश्रान्तिः । अस्तीति शेषः । यद्यपि परब्रह्म सच्चिदानन्दपूर्ण आत्मैवेति ज्ञानसुधासिन्धुरूपस्याऽर्थस्य परब्रह्मपदेनैव लाभात्पौनरुत्यमापतति । तथाऽपि “स की चकैर्मारुतपूर्णरन्धैरि "त्यादिवद्विशेषणवाचकपदसन्निधाने विशिवाचकपदस्य विशेष्यमात्रपरत्वात्कथञ्चित्समाधानीयम् । यद्वा यतो ज्ञानसुधासिन्धुरतः परब्रह्मेति काव्यलिङ्ग वा बोध्यम् । ननुः यस्येति किमित्याह-विषयेति । तस्य-ज्ञानमये परब्रह्मणि मग्नस्याऽऽत्मनः । विषयान्तरसञ्चार:-अन्यो ज्ञानाल्लक्षणया ज्ञानो, पायभूताच ज्ञानमयाद्ब्रह्मणश्च भिन्नो विषयः स्पर्शरसादिस्तत्र । यद्वा विषयाणां स्पर्शरसादीनामन्तरे मध्ये-विभिन्नेषु विषयेष्विति
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy