________________
शानसारे मग्नाऽष्टकम्
मित्यर्थः । इन्द्रियाणां प्रत्याहासचित्तस्य च समाधानाद्विकल्पस्य सर्वथाऽसम्भवात्स्वयमेवोद्भासमाना या निर्विकरपावभावा शुद्धा चेतना, तत्रैव विश्रान्तिमवस्थानम् । चिन्मयत्वमिति यावत् । विकल्परिहारे हि निर्विकल्पं ज्ञानमेवाऽऽत्मनि भासते, चिन्मयो वाऽऽत्माऽवभासते इत्यात्मा चिन्मात्रविश्रान्त इति चिन्मात्रविश्रान्ति दधदिति चाऽभिधीयले । न तात्मा प्रयस्य तां विश्रान्ति दधाति । किन्तु मेघारगमे सूर्यवद्विकल्पनिवृतौ तथास्वभावत्वादात्मा स्वस्थ. भावावस्थ एव प्रकाशते इत्यवधेयम् । दधत्-धारयन् कुर्वन् वा । शुद्धचित्स्वरूपेग भासमान इति यावत् । यदुक्तम्-" यथा दीपो निवातस्थो नेते सोपमा स्मृता । योगिनो यतचित्तस्य युखतो योममात्मन" इति । सा कासवादौचित्यादात्मेति विशेष्यं लभ्यते । स तादृशः किंशब्दाऽभिधेय आत्मेत्याकासापूरणायाऽऽह-मन्नःलीनः, पूर्णो वा । अभिधीयते-कथ्यते । ततश्च मग्नता पूर्णता च नाऽर्थान्तरम् । एवञ्चन्द्रियपत्याहारमनःसमाधानपूर्वकचिन्मात्रविश्रान्तिगत्मनो मग्नता पूर्णता वा । तद्वांश्च मग्नः पूर्णो वा । एलेनेन्द्रियप्रत्याहारमनःसमाधानसाध्या मग्नतेति भण्या सूचितम्। सचिदानन्दमयस्वेन विवक्षायां पूर्ण इति चिन्मयत्वमात्रेण विवक्षायां मन इति चाऽभिधीयते आस्मेति विवेकोऽत्र बोध्यः । न तु तावता वस्त्वन्तरता । चिन्मयो हि सच्चिदानन्दमयः, स च स इत्यलमतिप्रसङ्गेन ॥ १ ॥
एकदा तादृशमग्नतायां लब्बायां न कदापि ततश्युतिरिति