________________
३५६
भद्र रोदयाख्यव्याख्याविभूषिते
मङ्गलमेवेति प्रेक्षावताऽयं ज्ञानसारोऽवश्योपादेय इति हृदयम् । परम्परितरूपकाऽलङ्कारः ॥ १६ ॥
अथाऽन्ते ग्रन्थकारः शास्त्रस्य गोत्रशुद्ध्यर्थं स्वपरिचयमुपदर्शयन् समाप्ति सूचयति
-
गच्छे श्रीविजयादिदेव सुगुरोः स्वच्छे गुणानां गणैः प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीर्थ्यभृतां नयादिविजय प्राज्ञोत्तमानां शिशोः श्रीमन्न्यायविशारदस्य कृतिनामेषा कृतिः प्रीतये ॥ १७ ॥ इति श्रीमहामहोपाध्याय श्रीयशोविजयोपाध्यायविरचितो ज्ञानसारः सम्पूर्णः ॥
गच्छे इत्यादि । श्रीविजयादिदेव सुगुरोः -श्रीविजय इति शब्द आदौ यस्य देवशब्दस्य तदाख्यः श्रीविजयदेवसूरिः स. चाऽसौ शिष्यानुग्रहपरत्वात्सुगुरुरुतमो गुरुरुपदेष्टा तस्य, स्वच्छेनिष्कलङ्कत्वाद्विशुद्धे, प्रौढिमधानि - प्रौढिमाऽनभिभवनीयप्रतिमा तस्य धामाssस्पदं तस्मिन् प्रौढ़ें, गच्छे-गणे, श्रीदेवसूरितपोगण इत्यर्थः । यद्वा प्रौढिमधाम्नीति प्रौढिपाप्तिक्रियाधारतया व्याख्येयम् । ततश्च प्रौढिम्नां धाम तस्मिन् जातावेकत्वम्, प्रतिभावत्सु विद्वित्वित्यर्थः । जीतविजयप्राज्ञाः - जीत विजयाख्याः प्राज्ञाः सूरयः, आदरार्थे बहुवचनम् । गुणानाम् -ज्ञानचारित्रादिगुणानाम्, गणै-समूहैः कृत्वा, पराम् महतीम्, प्रौढिम् - बुद्धिम्, प्रसिद्धिमित्यर्थो वा । ऐयरुः - प्रापुः, स्वगुणैर्विद्वन्मान्या अभव
1
ܙ