________________
ज्ञानसारे आशीर्वचनम्
निति यावत् । तत्सातीर्थ्यभृताम्-तेषां जीतविजयानां समानस्तीर्थो गुरु यस्य स सतीर्थस्तस्य भावस्तत्त्वं सातीय बिप्रतीति ते तादृशा स्तेषां गुरुभ्रातृणाम् , नयादिविजयप्राज्ञोत्तमानाम्नयो नयशब्द आदि यस्य विजयशब्दस्य तदाख्या नयविजयाश्च ते प्राज्ञेषु विद्वत्सूत्तमाः श्रेष्ठाश्च तेषां पण्डितप्रकाण्डस्य नयविजयानाम् , शिशो:-शिशुवल्लाल्यत्वात्पाल्यत्वाच्च शिशुः शिष्यत्तस्य, श्रीमन्न्यायविशारद स्य-श्रीमान् ज्ञानादिलक्ष्मीवान् यो न्यायेत विशारदो निष्णोऽन एव न्यायविशारदेतिपदवीप्राप्तश्च तस्य महो. पाध्यायस्य श्रीयशोविजयवाचकस्य, एषा-प्रस्तुता ज्ञानसाराख्या, कृतिः-शास्त्रनिर्मितिः, कृतिनाम्-पण्डितानाम्, प्रीतये-मनोमोदाय, भूयादिति शेषः । अत्र ज्ञानसारात्मकसत्तत्त्वप्रतिपादनादवश्यमेषा तज्ज्ञानां प्रीतिप्रदा स्यादित्याशासे इति तात्पर्यम् ॥१७॥
इति ज्ञानसारे प्रख्यातव्याख्यातृ-श्रीकदम्बगिरिकापरडाजी राणकपुराद्यनेक तीर्थोद्धारक-आबालब्रह्मचारी-शासनसम्राट्-परमपूज्य-आचार्यदेवश्रीविजयनेमिसूरीश्वरपट्टधरशिष्य-शान्तमूर्ति-समयज्ञ-आचार्यदेवश्रीविजयविज्ञानसूरीश्वर पट्टालंकारशिष्यरत्न-प्राकृतविद्विशारद-सिद्धान्तमहोदधि-आचार्यदेव श्रीविजयकस्तूरसूरीश्वरपट्टधरशिष्य-कविरत्न-पन्यासप्रवर श्रीयशोभद्रविजयगणिवरशिष्यपन्यासशुभङ्करविजयगणिविरचिता
صحافیعی وحقد دعى عحة 2
भदङ्करोदयाख्या व्याख्या समाप्ता ॥
cmomramGaimerman