________________
शाानसारे आशीवचनम्
सम्पादिता द्रवास्तैः कृत्वा, सर्वत एव-दिक्षु विदिक्षु च, न तु कचिदेवेत्येवकारार्थः । भू-शाखपदवाक्यरूपा भूमिः, लिप्ताउपदिग्धा, शास्त्रीयं सर्व पदं वाक्यं च पवित्रभावप्रतिपादकमिति सारः। तथा, समतोदकैः-समता सर्वप्राणिषु तुल्यदृष्टि र्हिता. हितयो रागद्वेषाभावान्माध्यस्थ्यं च सैव कषायादितापस्य कर्म. रजसां च शमनादुदकानि जलानि तैः कृत्वा, संसिक्ता-सम्यक्सर्वत मार्द्रता यथा स्यात्तथा सिक्कोक्षिता, शास्त्रः। अत्र शास्त्रेऽपक्षपातेन यथावस्थिततत्वप्रतिपादनमिति तात्पर्यम् । अथ-पुनः, पथि-राजमार्गे रथ्यासु च तद्रूपेषु द्वात्रिंशदष्टकेषु, विवेकस्रजःविवेका स्तत्तत्त्वयथार्थपरीक्षणात्मकविचारा एव शास्त्रशोभावहखाच्छास्त्रगौरवगुणसौरभपदत्वाच स्रजो माल्यानि ताः, न्यस्ता:लम्बिताः, वितता इत्यर्थः । शास्त्रे कृतो यथार्थविचारः शास्त्रशोभायै शास्त्रगौरवाय चेति बोध्यम् । अत्र शास्त्रे तत्तत्तत्त्वस्य यथार्थपरीक्षाकृतेत्याशयः । तथा, अध्यात्माऽमृतपूर्णकामकलश:-अध्यात्म आत्मनः शुद्धज्ञानक्रियापरिणामस्तादृशज्ञानकियोपदेशकानि सूक्तानि च तदेवाऽलौकिकसुखप्रदत्वादमृतं सुधा बलं वा तेन पूर्णो भृतो यः कामकलशः कामप्रदो मालकुम्भः सः, चक्रे-स्थापितः, अध्यात्म सूक्तात्मकमेतच्छास्त्रमित्यतो ज्ञानसार इत्युच्यते इति भावः । नृपादौ पुरं प्रविशति प्रागेव नागरै नगरभूमि ौमयैर्लिप्यते जलैः सिच्यते, तत्र तत्र माल्यानि न्यस्यन्ते कामघटश्च स्थाप्यते मालार्थम् । अत्र तु आत्मप्रवेशाय शास्त्रेण स्वयमेवैतत्सर्व मङ्गलं सम्पादितमित्यत्र प्रविशत आत्मनः सर्वथा