SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५४ भद्रङ्करोदयाख्यव्याख्याविभूषिते सम्यक्चारित्रमात्मसाजातमेवेत्याशयः । पाणिग्रहावसरे हि गृहे वन्दनमालिका वध्यन्ते, गीतानि प्रवर्त्तन्ते, आनन्दमग्नश्च लोको भवति । ज्ञानसारात्सम्यक्चारित्रलाम इति हृदयम् ॥ १५ ॥ शिष्यमनोरञ्जनाय ज्ञानसारमाहात्म्यमेव पुनराह-.. भावस्तोमपवित्रगोमयरसैलिप्तैव भूः सर्वतः संसिक्ता समतोदकैरथ पथि न्यस्ता विवेकस्रजः। अध्यात्माऽमृतपूर्णकामकलशचक्रेऽत्र शास्र पुरे पूर्णानन्दघने पुरः प्रविशति स्वीयं कृतं मङ्गलम् ।। १६ ॥ __ भावस्तोमेत्यादि । अत्र-अस्मिन् प्रस्तुते, शास्त्रे-ज्ञानोपदेशपटौ ज्ञानसाराख्ये प्रन्थे, तद्रूपे इत्यर्थः । पुरे-पुरं द्वात्रिंशताऽष्टकैः पुरविभागैरिवोपलक्षितत्वान्नगरं तत्र, पूर्णानन्दघने-पूर्णेनाऽपरिमितेनाऽनन्तेन स्वाभाविकेनाऽन्यूनेनाऽऽनन्देन सुखेन घनो निबिडः पूर्णानन्दमयस्तस्मिस्तादृशे आत्मनि नृपरूपे, प्रविशति-प्रवेशं परिशीलनादिरूपमवगाहं कृतवति सति, आत्मप्रवेशमुपलक्ष्थेति यावत् । पुरः-प्रथममेव, प्रवेशसमयात्प्रागेव, स्वीयम्-स्वस्वप्रस्तुतशास्त्रस्यैवेदं स्वीयम् , शास्त्रेण स्वत एव, मङ्गलम् -मालावहवस्तुविन्यासः, कृतम् - सम्पादितम् । मङ्गलकृतिमेव प्रपञ्चय. नाह-मावेत्यादि । मावस्तोमपवित्रगोमयरसैः-भावाः शास्त्रप्रतिपाद्या मनोवृत्तिशुद्धिहेतवोऽस्तेिषां स्तोमः समूहो द्वात्रिंशदष्टकप्रतिपाद्यार्थराशिः स एव पवित्राः शुचितासम्पदकाः शुरयश्च गोमयानां गोविकाराणां छगणानां रसा जले छगणघोलनेन
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy