________________
ज्ञानसारे आशीर्वचनम्
३५३ पूर्णानन्दघनस्य किं सहजया तद्भाग्यभायाऽभवमैतद्वन्थमिषात्करग्रहमहश्वित्रश्चरित्रश्रियः ॥ १५ ॥
जातोद्रेकेत्यादि । हृद्हे-हृदुहृदयं तदेव तोरणादिसमप्रत्वाद् गेहं गृहं तत्र, जातोद्रेकविवेकतोरणततौ-जातः सम्पन्न उद्रेकोऽतिशयो विशेषरचना वा यस्यास्ताहशो विवेक आत्मानास्मभेदग्रह एव हृद्गृहशोभासम्पादकत्वातोरणानां ततिः श्रेणि यंत्र तादृशे विशदविवेकाख्यतोरणाऽलङ्कृते सति, धावल्यम्-सुधादिलेपेन शुभत्वमिव वैराग्यादिना शुचित्वम् , आतन्वति-प्रकटयति, समयोचिते-कालप्राप्ते चारित्रग्रहणकालोचिते, स्फोते-विशदे वर्णादिविशुद्धे च, गीतवनौ-गानशब्दे आगमसूत्रादौ च, प्रसरतिप्रवर्तमाने पठ्यमाने च सति, पूर्णानन्दघनस्य-पूर्णोऽन्यूनः सर्वोकृष्टो य आनन्दस्तेन घनो निबिडः पूर्णानन्दानुभवलीनस्तस्य तादृशस्यात्मनः, वरस्येव, सहजया-स्वाभाविक्या, तद्भाग्यमझ्या-तस्य तादृशस्यात्मनो यद्भाग्यं शुभादृष्टं तस्य भझ्या विछित्त्या, तत्सुकृतवशादित्यर्थः । एतद्न्थमिषात् - एतस्य प्रस्तुतस्य ग्रन्थस्य ज्ञानसारास्यस्य प्रबन्धस्य मिषाद्रचनपरिशीलनब्याजेन, चारित्रश्रियः-चारित्रलक्ष्म्याः , चित्र:-बहुविधोत्सवमयः, करग्रहः-पाणिग्रहणम् , आत्मसाक्षात्कार इत्यर्थः । नाऽभवत्न जातः, किमिति क्षेपे, अपि तु जातएव । नञ् द्वयार्थस्य प्रकृवार्थदाढर्यपरत्वात् । यदा भाग्यवशाद् ज्ञानसाराधिगमेन हृदये विवेकोदयः प्रवचनपरिशीलनं तेन चाऽऽत्मानन्दानुभवस्तदा