________________
कानसारे आशीर्वचनम्
३५१
दीपोत्सव :- दीपमालिकारूप उत्सवः, नित्योऽस्तु सर्वदा प्रवर्तताम् । दीपोत्सवे शतं दीपाः प्रवर्त्तन्ते, एतद्रन्थपरिशीलनेनाऽपि सम्यग्ज्ञानबाहुल्यमिति तानि ज्ञानानि दीपात्मकानि चिरं जयन्त्वि-त्यर्थः । शार्दूलविक्रीडितं छन्दः । उपमारूपकयोः संसृष्टिः ॥ १३॥
शिष्यभावोद्दीपनार्थ ज्ञानसारस्य दौर्लभ्यमाह -
केषाञ्चिद्विषमज्वरातुरमहो चित्तं परेषां विषावेगोदर्क कुतर्क मूच्छितमथाऽन्येषां कुवैराग्यतः । लग्नाऽलर्क मबोधकूपपतितं चास्ते परेषामपि स्वोकानां तु विकारभाररहितं तज्ज्ञानपाराश्रितम् ॥ १४ ॥
केषाञ्चिदित्यादि । अहो ! - आश्चर्यमेतत्, यज्ज्ञानसारे जगति विजृम्भमाणेऽपि, केषाञ्चित् - मनिर्दिष्टनामधेयानां भवाभिनन्दिनाम्, चित्तम् - मनः, विषयज्वरातुरम् - विषयो विषयाभिलाषस्तस्य तदप्राप्तिजन्यत्वादुपभोगजन्यत्वाद्व । तत्सम्बन्धी यो ज्वरः सन्तापो दुष्टकर्मबन्धादिरूपो वा रोगस्तेनातुरं पीडितम्, विषयाभिलाषदीनमित्यर्थः । परेषाम् - कतिपयानामेकान्तवादिनाम्, विषावेगोदर्क कुतर्क मूच्छितम् - विषस्य गरलस्याssवेगस्त्वरा झटिति तहुष्परिणाम प्रसारस्तादृश उदर्क उत्तरकालः फलं वा यस्य, प्राणान् विषावेग इव धर्मसारज्ञानसारापहारफलः कुतर्को दुष्टन्यायप्रयोगस्तेन मूच्छितं विनष्टबिवेकम्, चित्तमिति सम्बध्यते । " उदर्कः फलमुत्तरमि "त्यमरः । यथा विषस्य चित्तमूर्च्छा प्राणापहारश्च फलं तथा कुतर्कश्य ज्ञानापहारश्विते विवेकनाशश्व फलमिति भावः ।