SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ - ३५० भद्रङ्करोदयाख्यव्याख्याविभूषिते -ज्ञानानां वस्तुपरिच्छेदहेतुत्वेन प्रकाशानां दीप इव हेतुर्दीपोज्ञानसारग्रन्थः, पुरन्दरपुरस्पर्धा व हे पुरन्दर इन्द्रस्तस्य पुरममरावती तेन सहैश्वर्यचारुत्वादिना स्पर्धां तदभिभवेच्छामावहति करोतीति तादृशे सुरनगरीतुल्ये, सिद्धपुरे तदाख्यनगरे, उदारसार महसाउदारं प्रसारि सारं श्रेष्ठं चारु वा यन्महस्तेजस्तेनोपलक्षिते, प्रसारिसुखकर तेजस्विनि, दीपोत्सवे - दीपैरुपलक्षित उत्सवो यस्मिन् तस्मिन् दीपमालिकाख्ये, पर्वणि शुभदिने, सिद्धिम् - समाि निष्पत्ति वा लब्धवान् - प्राप्तवान् समाप्त इत्यर्थः । सिद्धपुरे हि सिद्धिलाभ उचित एवेति भावः । उदारसारमइसेति चिद्दीपस्यापि विशेषणतया व्याख्यायते । तथा च- उदारमात्मगुण तत्साधनप्रतिपादने विशदाशयत्वात्पटु, अत एव सारं सम्यङ्महस्तेजो मादास्म्यम् तेनोपलक्षित इत्यर्थः । अध्यात्ममार्गतिमिर निरोधक इत्यर्थः । एतद्वाचकानां शुभमाशंसमान आह - एतदित्यादि । एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणम् - एतस्याऽमुष्य ज्ञानसारग्रन्थस्य यद्भावनस्य परिशीलनस्य भावः सद्भावश्चिन्तनात्मकपरिणामस्तेन पावनं सम्यग्ज्ञानद्वारा शुद्धिमापन्नं यन्मनश्चित्तं तत्र चञ्चन् विलसन् यश्चमत्कारोऽहो भावोदयः, धन्योऽहं यदेतदनुशीलनेन सम्यग्ज्ञानमाप्तवानित्येवं सहर्षाश्वर्यं तद्वताम् एत स्परिशीलनजनितसम्यग्ज्ञानजन्यप्रीतिमताम्, सुनिश्चय मतैः- सुदृढा निश्वया मता इष्टा स्तैर्निश्चितज्ञानाख्यैः तैस्तैः - बहुविधैः, दीपशतै:- दीपानां वस्तुयाथात्म्य परिच्छेदकानां निश्चयात्मकानां ज्ञानानां शतानि तैः दीपेरिव वस्तुप्रकाशकैरनेकैः सम्यग्ज्ञानैरित्यर्थः । " " D ,
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy