SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यव्याख्याविभूषिते ज्ञानसारसारस्वतोर्मिभि:- ज्ञानसार उक्तो द्वात्रिंशदष्टकात्मको निबन्धस्तस्य ये सारस्वताः सरस्वत्या वाङ्मयस्येमे सरस्वत्या नद्या नदीविशेषरूपायास्तदाख्यायाः वेमे इति तादृशा ऊर्भयस्तरङ्गा इवाऽष्टकरूपाः श्रेणयस्तैः कृत्वा शिवभागवतादिवत्समासः । आर्टीकृतम्-सिक्तम् , पक्षे ज्ञानसारपरिशीलनेनोपशान्तं कृतमि. त्यर्थः । स इति प्रस्तावाल्लभ्यते । तीव्रमोहाऽग्निप्लोषशोषकदर्थनाम्-तीव्रोऽत्युत्कटो दुर्निवारो यो मोहोऽज्ञानं रागादिश्च स एवं विविधाधिव्याधिरूपसंतापहेतुत्वादग्निप्लोषोऽग्निदाहस्तज्जनितो य शोषः कण्ठादिनीरसता, पक्षे कषायादिजन्या मनसः क्रूरता तज्ज. निता या कदर्थना पीडाऽनिष्टसम्प्रयोगश्च ताम् , मोह विडम्बनामित्यर्थः, न-नैव, आप्नोति-प्राप्नोति, ज्ञानेन मोह विनाशात्कारणाऽभावादिति भावः । यो हि नदीतर राीकृतस्तस्याऽग्नितापजनितः शोषो न भवति, तापविरोधिनः शैत्यस्य सद्भावात् । तथा यस्य मनो ज्ञानसारपरिशीलनेनोपशान्तं तस्य मोहस्तज्जनिता पीडा च द्वयमेव दूरीभवति, ज्ञानस्य मोहविरोधिनः सद्भावादिति ज्ञानसारो मोहादिविकारस्य तजनितावाधायाश्च विरोधित्वानिर्विकारो निराबाधश्चेति तात्पर्यम् ॥ ७ ॥ यदुक्तं ' मोक्षोऽत्रैवे 'ति, शिष्यप्रतिबोधाय तदुपादयन्नाहअचिन्त्या कापि साधूनां ज्ञानसारगरिष्ठता। गति ययोर्धमेव स्यादधःपातः कदापि न ॥ ८॥ अचिन्त्येत्यादि । साधूनाम्-मुमुक्षुगाम् , ज्ञानाराधनोधता
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy