________________
शानसारे फल-स्तुतिः
३४३
न्यवच्छेदः, मोक्ष:-मुक्तिः। एतन्महन्माहात्म्यं ज्ञानसारस्य, यहू. लादिह भव एवं कोटिभवैरपि सुदुर्लभो मोक्ष इति ज्ञानसारोऽवश्य मुपादेयो मुमुक्षुभिरित्याशयः । किञ्च ज्ञानसाराद्विकारस्य दुष्टम!. वृत्ते रागादिरूपाया निवृत्तिरिति ज्ञानसारो विकारपरिहारसाधनत्वाकारणे कार्योपचारानिर्विकारः, अत एव च स निरावाधोऽपि इष्टवियोगाऽनिष्टसम्प्रयोगादिजन्यमनःपीडाया आबाधाया निर्गतत्वात् , तादृशाऽवाधाया रागादिमूलत्वात् । ज्ञानिनो हि न विकृता मनोवृत्ति. नेिन मनसोऽङ्कशितत्वात् । न वा विषयालाभादिना दुःखम् , मात्मसुखलीनत्वादित्येवं ज्ञानसारो निर्विकारो निराबाधश्चेत्यपि वोध्यम् । तादृशज्ञानसारलाभश्चाविरत्यविनाभावी, ज्ञानाच्च विरतिपोष इति ज्ञानसारसमग्रो विनिवृत्तपराशोऽपि । अत एव तस्य सदाऽऽत्मसुखलीनतया मोक्षतुल्यं सुखमित्युपचारादिहैव मोक्षइत्यपि बोध्यम् । ज्ञानसारादोषनाशो दुःखनिवृत्ति वैराग्यं मोक्षश्चेति ज्ञानसारस्यैतावदसाधारणं फलमिति हृदयम् । अत्र च ज्ञानसारमुपेत एव महात्मा स एव च ज्ञानसारमुपैतीत्युभयथाऽप्यर्थो ध्वन्यते ॥ ६ ॥
यदुक्तं निर्विकारं निराबाधमिति, शिष्यप्रबोधाय तदेव वि. वृण्वन्नाह
चित्तमाः कृतं ज्ञानसारसारस्वतोर्मिभिः । नाऽऽप्नोति तीव्रमोहाग्निप्लोषशोषकदर्थनाम् ॥ ७ ॥ चित्तमित्यादि । यस्येत्यर्थवलाल्लभ्यते । चित्तम्-मनः,