________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
सुमुक्षुणा ज्ञानसारोऽवश्यमधिगन्तव्य इत्याशयः । अत्र तत्त्वं प्रतिपनवान् ज्ञानसारं समधिगच्छतीत्युक्त्याऽष्टकै निष्टङ्कितं तत्त्वं बानसार इति प्रन्थस्याऽस्य तत्प्रतिपादकतयाऽन्वर्थ नाम ज्ञानसार इति ध्वन्यते ॥ १ ॥२॥ ३ ॥ ४ ॥ ५ ॥
॥ फल-स्तुतिः ॥ अथ शिष्यस्य प्रवृत्ति यथा स्यादिति ज्ञानसारफलस्तुतिमाहनिर्विकारं निराबाधं ज्ञानसारमुपेयुषाम् । विनिवृत्तपराशानां मोक्षोऽत्रैव महात्मनाम् ॥ ६ ॥
निर्विकारमित्यादि । निर्विकारम्-विकान्निर्गतम् , विकारो दोषस्तद्रहितमित्यर्थः । शुद्धमिति यावत् । यथार्थमिति तात्पर्यम् । विषयादयो हि ज्ञानदोषास्तद्रहितं ज्ञानमेव तत्प्रतिपादकं सूक्तं बा ज्ञानसारपदवाच्यतामहतीति ध्येयम् । निराबाधम्-आवाधा विरोषस्ततो निर्गतम् , यद्धि यथार्थं न तत्र कस्याऽपि विरोधितेति निर्विरोधमित्यर्थः तादृशम् , ज्ञानसारम्-ज्ञानसारख्ययोक्ताऽष्टकैः प्रतिपादितं तत्त्वम्, उपेयुषाम्-अधिगमेनाऽऽत्मसात्कृतानाम् , बत एव, विनिवृत्तपराशानाम्-विनिवृत्ता उपशान्ता परेष्वात्ममिन्नेषु पौद्गलिकेष्वाशेच्छा येषां तेषां तादृशानाम् , आसक्ति. रहितानां विरकानामित्यर्थः । अत एव, महात्मनाम्-महान् जानाद्विरतेश्वोत्तमगुणवत्त्वादुत्कृष्ट आत्मा येषां तेषामध्यात्मगुण. सम्पन्नानां साधनाम्, अत्र-इह भव एव, एवकारेण भवान्तर