________________
ज्ञानसारे उपसंहार
३४१
त्याऽसंस्पृष्टः, लोकाऽनुरोधेनाऽप्य कार्य पराङ्मुखः, शास्त्रग्-लोकसंज्ञात्यागसाधनतया शास्त्रदृष्ट्यष्टकोक्तरीत्या शास्त्राज्ञाराधकः, निष्प रिग्रहः-शास्त्राज्ञा परिग्रहादिना विराद्धा मा भूदिति परिग्रहाऽष्टकमर्मज्ञानात्त्यक्तसर्वपरिग्रहः, शुद्वानुभववान्-उक्तगुणसद्भावादेतोरात्मगुणविशेषं मुक्यवस्थापूर्वभाविनमनुभवाष्टकोक्तरीत्या हेयोपादेयैकत्वानुभवात्मकनिर्दुष्टानुभवं प्राप्तः, अत एव, योगीयोगाष्टकोक्तरीत्या वर्णस्थानादियोगसम्पन्नः, अत एव, नियामप्रतिपत्तिमान-नियागाऽष्टकोक्तरीत्या भावयोगात्मकब्रह्मयज्ञविधायकः, अत एव, भावाऽध्यानतपसाम्-भावपूजाऽष्टको. तपकारा भावपूजा, ध्यानाष्टकोक्तप्रकारं ध्यानम् , तपोऽष्टकोक्त. प्रकारं तपश्च तेषाम् , भूमिः-पात्रम् , नियागाजतया भावा;दि. तत्पर इत्यर्थः । सर्वनयाश्रित:-सर्वनयाश्रयणाऽष्टकोक्तरीत्या पूर्णतादिगुणसाफल्याय सर्वनयाभिमतवस्तुतत्त्वादरी, तदेवमेमिगुणैर्विशिष्टः सन् , अष्टकैः-पूर्णाद्यष्टकै त्रिंशता, स्पष्टम्-विशदाक्षरम् , सरलसुगमरूपेणेत्यर्थः, निष्टङ्कितम्-प्रतिपादित निर्धारितं च, तत्त्वम्-ज्ञानादेः पारमार्थिकं स्वरूपम् , प्रतिपत्रवान्मनसि प्रणिहितवान्, स्वीकृतवानित्यर्थः । तत्त्वं मनसि धारयित्वेति यावत् । महोदयम्-महान् सर्वोत्कृष्ट उदय आत्मगुणवृद्धिमुक्तिरूपो यतस्तादृशम् , श्रेयःसाधनं महाफलप्रदम् , ज्ञानसारमज्ञानं सम्यग्ज्ञानमेव सारः पारमार्थिकं प्राप्यं तम् , ज्ञानं सार: स्थिरांशो यत्र तादृशं सम्यक्चारित्रं वा, समधिगच्छति-सम्पूर्णतया आप्नोति, सम्यग्ज्ञानिन एव सम्यक्चारित्रं तत एव च मोक्ष इति