________________
३४०
भद्रङ्करोदयाख्यव्याख्याविभूषिते
निलेपाऽष्टकोक्तरीत्या पौगलिकभावैः कर्मभिरस्पष्टः, निःस्पृहःनिर्लेपतासिद्धये निःस्पृहाऽष्टकोक्तरीत्याऽधिकेच्छाशून्यः, मुनि:इच्छानिरोधाय मौनाऽष्टकोक्तप्रकारेण जगत्तत्त्वमननपरायणः, विद्याविवेकसम्पन्न:-जगत्तत्त्वाऽवबोधाय विद्याऽष्टकोक्तप्रकारेण नित्यशुच्यात्मसु नित्यशुच्यात्मताख्यातिरूपया विद्यया विवेकाऽष्टकोतरीत्या संश्लिष्टयोःकर्मजीवयोर्भेदेन परिच्छेदरूपेण विवेकेन च सम्पनः समग्रः, विद्वान् विवेकी चेत्यर्थः । मध्यस्थ:-विद्यया विवेकेन जगत्तत्त्वाऽवबोधान्माध्यस्थ्याऽष्टकोक्तरीत्या कुत्रापि तत्त्वे कदाप्रहरहितः, सर्वनयाऽमिमतवस्तुतत्त्वादरी रागद्वेषरहित इत्यर्थः । भयवर्जित:-माध्यस्थ्यलाभाद् विद्यादिसद्भावात्स्पृहाद्यमावाश निर्भयाऽष्टकोक्तरीत्या भवसुखाऽपहारभयरहितः, अनात्मशंसक-भयाद्यभावात्स्वार्थलिप्साद्यभावाञ्च निष्पयोजनतयाऽनात्मअंसाऽष्टकोकरीत्याऽऽत्मप्रशंसाविमुखः, तत्वदृष्टिः-तत्त्वदृष्ट्यष्टको कप्रकारेण पुद्गलेषु तत्त्वबुद्धि विहायाऽऽत्मस्वभावमात्रतत्त्वबुद्धिः, सर्वसमृद्धिमान्-तत्वदृष्ट्याऽत्मसाक्षात्कारात्सर्वसमृद्ध्यष्टकोक्तप्रका. रेव समाध्याबलौकिकैश्वर्यसम्पन्नः, कर्मविपाकानाम्-कर्मणो विपाकः शुभाशुभपरिणामदानाऽऽभिमुख्यं तादृशपरिणामा वा स्तेषाम्, ध्याता-अशुभवृत्त्याऽऽत्मैश्वर्याऽपकर्षो मा भूदिति हेतोः कर्मविषाकचिन्तनाऽष्टकोक्तरीत्या चिन्तकः, अत एव, भत्रवारिः-भवः संसारो वारिधिः समुद्र इव, ततः, उद्विग्नः-भवो. देगाऽष्टकोत्तरीत्या भयाद्विमुखः, अत एव, लोकसंज्ञाविनिमुक्तःजीक संज्ञा लोकमर्यादा तया विनिर्मुक्तो लोकसंज्ञात्यागाऽष्टकोकरी