________________
ज्ञानसारे उपसंहार
sयाता कर्मविपाकानामुद्विग्नो भववारिषेः । लोकसंज्ञाविनिर्मुक्तः शास्त्रदृनिष्परिग्रहः शुद्धाऽनुभववान् योगी नियागप्रतिपत्तिमान् । मवायानतपसां भूमिः सर्वनयाश्रितः स्पष्टं निष्टङ्कितं तत्रमष्टकैः प्रतिपन्नवान् । सुनि र्महोदयं ज्ञानसारं समधिगच्छति
॥ ५ ॥
,
पूर्ण इत्यादि । मुनि:- मुमुक्षुः साधुः, ज्ञानसारं समधिगच्छनीति पञ्चमश्लोकोक्तमनुसन्धानीयम् । ज्ञानसारसमधिगमे हेतूनेव विशेषणविषयाsss- पूर्ण:- पूर्णाऽष्टकोक्त दिशा सच्चिदानन्दपूर्णः, चद्धेतुभूतं विशेषणमाह-मग्नः - मग्नाऽष्टकोक्तप्रकारेण शुद्धचिदास्मलीनः स्थिरः - तादृशलीनतासम्पत्तये स्थिरताऽष्टकोक्तरीत्या निश्चलचित्तवृत्तिः, अमोह :- अविद्यमानो मोहो रागद्वेषकषायममवादि र्यस्य स तादृशः, स्थिरतार्थ मोहत्यागाऽष्टकोक्तरीत्याऽहं ममेत्येवं ममत्वशून्यः त्यक्तमोह इत्यर्थः । ज्ञानी :- मोहत्यागसिद्धये ज्ञानाऽष्टकोक्तप्रकारेण निर्वाणपदभावनावान्, शान्तःनिर्वाणपदभावनया शमाऽष्टकोक्तरीत्या विकल्पत्यागेनाऽऽत्मस्वभावमात्रविषयक ज्ञानसमग्रः, जितेन्द्रियः - शमसम्पत्तये इन्द्रियजंबाडष्टको दिशा दान्तः, शुभेन्द्रियव्यापार इति यावत् । त्यागी - इन्द्रियजयार्थं त्यागाऽष्टकोक्तप्रकारेण धर्मसंन्यासवान् योगसंन्यासवांश्ध, क्रियापरः- त्यागसम्पत्तये क्रियाष्ट कोक्तरीत्याऽसङ्गक्रियाऽनुछानपरायणः, तृप्तः - असङ्गक्रियासिद्धये तृप्त्यष्टकोक्तरीत्या साम्यमात्रित्याऽऽत्मस्वभावानुभवेन वितृष्णः, अत एव निर्लेपः
३३९
॥ ३ ॥
|| 8 ||