SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ झानसारे फल-स्तुतिः ३४ नाम् , ज्ञानसारगरिष्ठता-ज्ञानसारेण ज्ञानसारख्यप्रस्तुतवाङ्मयपरिशीलेन कृता गरिष्ठता ज्ञानादिगुणवृद्ध्यात्म काऽऽत्मगौरवम्, काऽपि-इतरविलक्षणतयाऽनिर्वचनीयेत्यर्थः । अत एव, अचिन्त्यामनसोऽगोचरा, अतयेत्यर्थः । हेतुप्रमाणदिभि नोंग्पत्तिमहंतीति यावत् । वाङ्मनसाऽतीतेति मिलितसारार्थः। अचिन्त्यत्वे बीज माह -गतिरित्यादिना । यया-यादृशज्ञानसारगरिष्ठतया कृत्वा, ऊर्ध्वम् -उपरि गुणस्थानकेषु सिद्धशिलायां वैव, गति:-आरोहः, स्यात्-भवेत् , एवकार व्यवच्छेद्यमाह-अध इत्यादिना । कदापिअननुकुल कालादावपि, अधःपात:-गुणस्थानकादवरोहः, भन. अहणं वा, न-नैव, स्यादिति सम्बध्यते । गरिष्ठतया भाराऽऽधिक्ये. नाऽधःपात एव दृष्टो न तूर्ध्वगतिः । तस्यां लाघवस्यैव हेतुत्वाद्गरिताया विरोधित्वाच्च । अत्र तु तद्विपरीतमित्यतो ज्ञानसारगरिष्ठता काप्यचिन्त्येत्याशयः । ज्ञानसारपरिशीलनपरायणानामध्यात्मगुणवृद्धि मोक्षश्चाऽधःपातनिरोधश्चेति ज्ञानसारस्य विलक्षणं माहात्म्यमित्ययमवश्योपादेय इति हृदयम् ॥ ८ ॥ ननु " कर्मणैव हि संसिद्धिमास्थिता जनकादयः । कुरु कमैक तस्मात्त्वं पूर्वैः पूर्वतरं कृतमि"त्युक्त दिशा क्रियैवाऽस्त्वलं ज्ञानसारे. णेति विप्रतिपन्नं शिष्यं प्रबोधयन्नाह क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः। दग्धतच्चूर्णसदृशो ज्ञानसारकृतः पुनः ॥९॥ वेशक्षय इत्यादि । क्रियाकृत:-क्रियया ज्ञानसाहित्यशून्यया
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy