________________
३३६
भद्रङ्करोदयाख्यव्याख्या विभूषिते
यै जनानां श्रेयःसाधनात्मकाऽनेकान्तवादोपदेशः कृत इति मिलि. तार्थः, तथा, इदम्-सर्वनयाश्रितं मतम् , येषाम्-यत्प्रकाराणां पुण्यशालिनां जनानाम् , चित्ते-मनसि, परिणतम्-श्रद्धावशा
वृत्तिरूपतामापन्नम् , येषां मनोवृत्तिनिश्चयेन सततं च तादृश. श्रद्धादिवशात्सर्वन याश्रितमतभावनात्मकमित्यर्थः । ये सर्वनयाभि मतदृष्टय इति यावत् । चः समुच्चये । तेभ्यः-सर्वनयाश्रितमतप्रकाशकेभ्यः परिणतसर्वन याश्रितमतचित्तेभ्यश्च सम्यग्ज्ञानपूतान्तःकरणेभ्यः परहितकृय पुण्यशालिभ्योऽहंद्भ्य आचार्य प्रभृतिभ्यश्च, नमोनमः-पुनः पुनर्नमस्कारोऽस्तु, भक्ति श्रद्धातिशयादिसूचनाय द्विरुक्तिः । सर्वनयाश्रितमतम्यैवोक्तोपपत्त्योपादेयत्वा यःफलत्वाच श्रेयस्विनः श्रेयःप्रवर्तकाः श्रेयसउपदेष्टारश्च पुण्यवन्तः पूज्याः स्तुत्या वन्द्याश्च नाऽन्ये इत्याशयः ॥ ६ ॥
अथ शिष्यप्रबोधाय सर्वनयाश्रयाणां सहेतुकं सर्वोत्कर्ष युग्मेन वर्णयन्नुपसंहरति
निश्चये व्यवहारे च त्यक्त्वा ज्ञाने च कर्मणि । एकपाक्षिकवि श्लेषमारूढाः शुद्धभूमिकाम् ॥ ७॥ अमृढलक्ष्याः सर्वत्र पक्षपातविवर्जिताः ।
जयन्ति परमानन्दमयाः सर्वनयाश्रयाः ॥ ८॥ इति महामहोपाध्याय-श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे सर्वनयाश्रयणाऽष्टकं नाम द्वात्रिंशतित्तममष्टकम् ॥ २७ ॥