________________
ज्ञानसारे सर्वनयाश्रवगाऽष्टकम्
सुखसम्पदो मुक्तिश्चेति तात्पर्यम् । तु मैदे । परेषाम्-सर्वनयज्ञ. भिन्नानाम् , पृथङ्नयज्ञानामेकान्तवादिनाम् , शुष्कवादात्-शुष्को वस्तुतत्त्वोरलब्धिफलाभावात्कण्ठतावादिशोषमात्रफलो वादस्तस्मात् , विवादात्-विवादो विजिगीषया पूर्वपक्षोत्तरपक्षाश्रयणं यत्र वादे स तस्मात् , चः समुच्चये । एकान्तवादिनां हि वादे स्वमताग्रहात्तत्त्वनिर्णयाभावो विजिगीषुकथा चेति न स धर्मपूर्वको धर्मार्थो वा, प्रत्युताऽधर्मपूर्वकोऽधर्माय च । अत एव, विपर्यय:-विपरीतता, श्रेयोविरुद्धं फलम् , विपुलमशुभमित्यर्थः । शुष्कवादे विवादे च कषायादिप्राचुर्यादशुभकर्मवृद्धिरेवेतीहाऽमुत्र च ततोऽशुभमेव फलमिति तात्पर्यम् । तस्मात्सर्वनयाश्रयणमुपादेयं पृथङ्नयाश्रयणं हेयमिति हृदयम् ॥ ५ ॥
उक्तोपपत्या सर्वनयाश्रयिणामुत्तमत्व सिद्धेः शिष्यस्य तेषु . श्रद्धासम्पत्तये तान् स्तुवन्नाह
प्रकाशितं जनानां यै मतं सर्वनयाश्रितम् । चित्ते परिणतं चेदं येषां तेभ्यो नमोनमः ॥ ६ ॥
प्रकाशितमित्यादि । यैः-यादृशैः पुण्यशालिपुरुषै निर्हेतुकपरोपकारतत्परैरर्हद्भिगचार्या दिभिश्च, जनानाम्-नयवादविशेषमजानतां सरलबुद्धीनां भव्य जनानाम् , सर्वनयाश्रितम्-सर्वेषां नयानां तदभिमतार्थेषु श्रद्धानादाश्रितं तदनुसारि, सर्वनयाभिमतार्थात्मकवस्तुपतिपादकमित्यर्थः, मतम्-सिद्धान्तः, अनेकान्तवादास्मकं दर्शनमित्यर्थः । प्रकाशितम्-उपदेशादिना प्रकटीकृतम् ,