SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ भानसारे सर्वनयाश्रवणाऽष्टकम् निश्चये इत्यादि। सर्वनयाश्रया:-सर्वे च ते नयाश्च तेषामाश्रयाः सवैनयाभिमतवस्तुतत्त्वज्ञाः साधवः, निश्चये-पारमार्षिकरूपेणाऽऽत्मादिवस्तुतत्वविषये, व्यवहारे-व्यवहारसिद्ध्यर्थ प्राधान्येन विवक्षिततत्तद्गुणपर्यायात्मके वस्तुनि, ज्ञाने-मतिश्रुतादिबानविषये, कर्मणि-आवश्यकादिक्रियायाम् , चद्वयं समुच्चये । एकपाक्षिकविश्लेषम्-एकः स्वाभिमतः स एव तस्मिन् , एक. मात्रविषयक इत्यर्थः । तादृशो य: पक्षः स्वस्वीकारप्रतिज्ञा तत्र मध एकपाक्षिको यो विशेषेण विकृतो वा श्लेषः सम्बन्धः, कंदाग्रह इत्यर्थः । वस्तुत्तचविसम्बादित्वादिति बोध्यम् । अयमेव सन्नित्येवमेकपक्षकदाग्रह मिति सारार्थः । निश्चयाभिमतमेव व्यवहाराभिमतमेव ज्ञानमेव क्रियैव वा सदित्येवमेकान्तग्रह मितियावत् । त्यक्त्वाअयथार्थत्वाद्विहाय, अतएव, शुद्धभूमिकाम्-शुद्धा वस्तुतत्त्वसम्बा. दित्वात्कदाग्रहरहितत्वाञ्च कषायादिरहिता निदुष्टा च सर्वनयाश्रय. बात्मिका या भूमिका चित्तावस्थाविशेषो ज्ञानपरिपाको वा ताम् , अध्यात्मगुणवृद्ध्यात्मकसम्यक्त्वावस्थामित्यर्थः । आरूढा:-अधि. हिताः, प्राप्ता इत्यर्थः । अत एव, मर्वत्र-सर्वस्मिन् देशकालादौ, पक्षपातविवर्जिताः-पक्षे स्वाभिमते विषये रागादिना पात आग्रहस्तेन विवर्जिता रहिताः, देशकालादिविशेषापेक्षया विधिनिषेधाअहवर्जिता इत्यर्थः । विधिनिषेधयोः सर्वत्र देशकालादौ समवृत्तितयाऽऽराधका इति यावत् । अत एव च, अमूढलक्ष्या:-न मूढं विस्मृतिभ्रान्त्यादिना च्युतं लक्ष्यं क्रियोदेश्यं येषां ते तादृशाः, २२
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy