SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३२ भद्रकरोदयाख्यव्याख्याविभूषिते अविशेषितम्-कश्चित्कालक्षेत्रद्रव्यभावात्मकं विशेषमनपेक्ष्य प्रवृतं सत् , न अप्रमाणम्-नाऽयुक्तम् , न हेयप्रकारमित्यर्थः। प्रमाणम्यथार्थात्मकम् , उपादेयप्रकारमित्यर्थः । वेति समुच्चये, तेन नेति सम्बध्यते । किन्तु ज्ञेयस्वभावमात्रप्रतिपादने तात्पर्यात्समम् । तदेव ह्यपेक्षाविशेषवशादप्रमाणं प्रमाणं चेति भावः । तदेवाहविशेषितमित्यादि । विशेषितम्-नयाविशेष सापेक्षतया प्रवृत्तं सत् , प्रमाणम्-युक्तिमत्, वस्तुपारमार्थिकस्वरूपप्रतिगदकत्वादुपादेयमित्यर्थः । स्यात्-भवेत् । यथा घटोऽस्तीति सामान्येन प्रयुक्तं वचनं नाऽप्रमाणम् , कथञ्चिद्घटसत्त्वस्य विद्यमानतयाऽपलपितुमशक्यत्वात् । न च प्रमाणम् , कथञ्चिदसत्त्वस्याऽपि तत्र सत्त्वादसम्पूर्णार्थ कत्वात् । कथञ्चिदस्त्येव घट इति विशेषितं वाक्यं तु प्रमाणम् , स्वकालद्रव्यक्षेत्रभावापेक्षाविशेषविशेषितत्वादसत्त्वस्य गौणतयाऽविवक्षितत्वाकालादिगुणैः कृत्वाऽभेदवृत्याऽभेदारोपेण वाऽनन्तधर्मात्मकत्वप्रकारेण प्रतिपादनाद् । घटोऽस्त्येवेति तु वचोऽ. प्रमाणमेव, परकालाद्यपेक्षया सतोऽप्यसत्त्वस्य निषेधे तात्पर्याद. सम्बादित्वादिति ध्येयम् । इति-उक्तप्रकारेण ज्ञानम् , सर्वनय. ज्ञता-सर्वे च ते नयाश्च नैगमादयस्तान् जानातीति स सर्वनयज्ञम्तस्य भावस्तत्ता, सर्वतयज्ञलक्षणम् , सर्वनयाश्रितत्वं वा । स्यादिति शेषः । निरपेक्षं वचनं वचनमात्रं सापेक्षं तत्पमाणम् , एकान्तेन वस्तुतत्त्वप्रतिपादकं वचनं चाऽप्रमाणमित्येवं ज्ञानमेव सर्वनयात्मकवस्तुज्ञानमित्यर्थः ॥ ३ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy