________________
ज्ञानसारे सर्वनयाश्रयणाऽष्टकम्
३३१
भिमतधर्मात्मकं वस्तु प्रतिपद्यमानः सन्नित्यर्थः । अत्र च ज्ञान्येव सर्वनयाश्रितः स एव च स इत्युभयथाऽप्यर्थो ध्वन्यते । द्रव्यात्मना हि वस्तु नित्यं सामन्यमभिन्नं सत् , गुणप्रधानभावेन सदसत्त्व. विवक्षायां वाच्यं च । पर्यायात्मना त्वनित्यं विशेषात्मकं भिन्नम. सद् मुख्यभावेन सदसत्त्वोभयविवक्षायामवाच्यं चेति नित्यानित्यसामान्यविशेष भेदाभेद सदसद्वाच्यत्वाऽवाच्यत्वाद्यनन्तधर्मात्मकमेव वस्तुतत्त्वम् , सतोऽपलापाऽयोगादित्याशयः। समवृत्तिः-समा मध्यस्थतया सर्वनयाभिमतवस्तुधर्मेषु तुल्या समाना वृत्तिः परिणतियस्य सः । पक्षप्रतिपक्षवर्जनाद्रागद्वेषशून्य इत्यर्थः । अत एव, सुखास्वादी-सुखस्य कदर्थनाऽभावात्सम्यग्ज्ञानजनितात्मानन्दस्याऽस्वादोऽनुभवोऽस्त्यस्येति स ताहश, । भवतीति शेषः । योहि न पक्षप्रतिपक्षबाधितः किन्तु समतामतिः स एवानुद्विग्नत्वातत्त्व. दृष्टित्वाच्च सुखमनुभवतीति सर्वनयाश्रितेनैव भाव्यमित्याशयः । यदुक्तम्-अन्योन्यपक्षप्रतिपक्ष भावाद्यथा परे मत्सरिणःप्रवादाः । नयानशेषानविशेषमिच्छन्न पक्षपाती समयस्तथा ते " इति ॥२॥
अथ शिष्यप्रबोधाय जिज्ञासानिवृत्तये च सर्वन याश्रितत्वं निर्वक्ति
नाऽप्रमाणं प्रमाणं वा सर्वमप्यविशेषितम् । विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता ॥ ३ ॥
नाऽपमाणमित्यादि । सर्वम्-अशेषम् , प्रत्येकं तत्तन्नयवाक्य. मित्यर्थः । अपिना नत्वेकं द्वे एव वेति न्यूनव्यवच्छेदो द्योत्यते ।