________________
३३०
भद्रङ्करोदयाख्यव्याख्याविभूषिते
पादयन्त्येवेति कस्यचिदाश्रयणमन्यस्य च निराकरणमिति न युज्यते, सर्वेषां सम्बादित्वात् । तस्मात्सर्वनयाऽभिमतोऽर्थ एव पर. मार्थो नत्वेकान्त इति स्पष्टमेव ॥ १ ॥
यदुक्तं सर्वनयाश्रितः स्यादिति, तत्समर्थनाय शिष्यं प्रबोधयन् पृथङ्नयदोषं सर्वनयाश्रितगुणं चाऽऽह
पृथङ्नया मिथः पक्षप्रतिपक्षकदर्थिताः । समवृत्तिः सुखास्वादी ज्ञानी सर्वनयाश्रितः ।। २ ॥
पृथङ्नया इत्यादि । पृथझ्नया:-पृथक् प्रतिस्वं भिन्नो नयो वस्तुतत्त्वपरिच्छेदकाऽध्यवसायविशेषो येषां ते तादृशाः, स्वभिन्ननयनिषेधर्वकनैगमादितत्तदे कैकनयाश्रिताः, मिथ:-परस्परम् , पक्षप्रतिपक्षकदार्थताः-पक्षः स्वसम्मतनय मात्र प्रहः, प्रतिपक्षः स्वविरोधिनिषेधाप्रहः, ताभ्यां वादप्रतिवादाभ्यां कदर्थिता विडम्बिता बाधिता वा । एको यन्मन्यते तदन्यो निषेधति, यया नित्य. वाद्यनित्यवादिनं स च तं दूषय ती ते मिथः सुन्दोर पुन्दन्यायेनैकोऽ. परैर्वाधित इति ते हेया एव, न हि बाधितं कोऽप्युपादत्ते । एकस्य मतमपरेण खण्डितमपरमतं च तेनेत्युभयमतमप्यनुपादेयमयुक. त्वात् । अत एव तादृशैकैकमतापहिणः कदर्थिता इव दुरवस्था इत्याशयः। ननु तर्हि कः सुस्थ इत्याकासानिवृत्तये आह-समेत्यादि । ज्ञानी-वस्तुपारमार्थिकस्वरूपज्ञानात्मकसम्यग्ज्ञानवान् , सर्वनयाश्रित:-सर्वान् सप्ताऽपि नयान्नैगमादीनाश्रितोऽभ्युपगतः, वस्तुनि द्रव्यपर्यायात्मना सर्वनयाऽभिमतधर्मस्य परमार्थतः सत्त्वात्सर्वनया