________________
ज्ञानसारे सर्वनयाश्रयगाऽष्टकम्
क्षितो न तु तदाश्रय आत्मा, गौणत्वात् । कालकारकलिनसङ्ख्या. दिभेदेन शब्दस्याऽर्थभेदं स्वीकुर्वन्नयः शब्दः। यद्यर्थभेदो न स्या तदा कालादिभेदो दुरुपपाद इति तदाशयः । यथाऽऽसीद् हिमालयः, अम्ति, भविष्यति । अत्र कालभेदेन भिन्न एव हिमालयः प्रतीयते । एवं कारकादिभेदेऽपि बोध्यम् , निरुक्तिभेदेन पर्यायशब्दानां भिन्नमर्थं समभिरोहन्-प्राधान्येन स्वीकुर्वन् समभिरूढो योगरूढिप्रकारः । शब्दनयः पर्यायभेदेऽपि क'लाद्यभेदेऽर्थभेदं न मन्यते । समभिरूढस्तु पर्याय भेदेनाऽर्थ भेदं प्रतिपद्यत इति तयोर्भेदः । कालादिभेदे पर्याय मेदेऽपि चाऽर्थगतमभेदमुपेक्षेते द्वावपीति बोध्यम् । यथा इन्द्र इन्दनात् , शक्रः शकनात् । नविन्द्रः शक्रः शको वा इन्द्रः । एकत्र शकनाभावादन्यत्रेन्दनाऽभावादिति तदाशयः । स्वप्रवृत्तिनिमित्त भूतक्रियाविष्टमर्थ वाच्यत्वेन प्रतिपद्यमानो नय एवम्भूतः । यथा घटमानो घटो न तु निष्क्रियः। अस्मिन्नय. मते सर्वः शब्दः क्रियाशब्दः । समभिरूढो नय इन्दनादिक्रियायां सत्यामसत्यां वा वासवादेरर्थस्येन्द्रपदवाच्यत्मङ्गीकरोति, अयं विन्दनादिक्रियायां सत्यामेवेति समभिरूढादस्य भेदः । एष्वाद्याश्चत्वारोऽथ प्राधान्येन विषयी कुर्वन्तीत्यर्थनयाः, पाश्चात्त्यास्तु त्रयः प्राधान्येन शब्दविषया इति शब्दनयाः । तथा विशेषग्राही अर्पितनयः, सामान्य ग्राह्य नर्पितनयः । लोकप्रसिद्धार्थमनुवदन् व्यवहारनयः, तात्त्विकार्थमभ्युपगच्छन् निश्चयनयः । ज्ञानप्राधान्याऽभ्युप. गमे ज्ञाननयः, क्रियाप्राधान्याऽभ्युपगमे क्रियानय इति सङ्केपः । विस्तरतस्तु नयप्रदीपादौ द्रष्टव्यः । तदेवं सर्वे नया वस्त्वंशं प्रति