________________
भद्रकरोदयाख्यव्याख्याविभूषिते
पर्यायार्थिकश्चाऽप्येवम् । सङ्कलनया सप्त नयाः । तत्र गौण मुख्यभावेन सामान्यविशेषाद्यनेकधर्मग्राही नयो नैगमः । यथा क्षणमेकं सुखी विषयासक्तजीवः । अत्र जीवात्मकसामान्यस्य प्राधान्यम्, सच्चैतन्यमात्मनीति चैतन्यस्य पर्यायस्य विशेषस्य मुख्यत्वं च वि वचितमिति जीवस्य सामान्यविशेषात्मकतया ग्रहः । जीवोऽप्यस्ति मुख्यप्यस्तीति नैकोऽपि धर्मोऽपलपितुं शक्य इति सामान्यस्य विशेषस्य च गौण मुख्यभावेन ग्रह इति नैगमाशयः । सामान्यमात्रग्राही नयः सङ्ग्रहः । तस्याऽयमभिप्रायः - विशेषस्य पर्यायात्मकस्य द्रव्यात्पृथनोपलम्भ इति सामान्यस्यैव प्राधान्यं न विशेषस्य, न हि द्रव्यं विकृतं भवति । जीवः सुखी वा भवतु दुःखी वा, जीवत्वाऽविशेषाज्जीव एव सन्, न तु सुखी दुःखी नारकों देवो वा । एतदुदाहरणम पर सामान्यस्य । परसामान्यस्य तु ' विश्वमेकं सदविशेषादि 'ति बोध्यम् । किमपि वस्तु न सत्रमत्येतीति सदेव सर्व न द्रव्यं गुणाः क्रिया वेत्याशयः । व्यवहारविषयार्थाऽभिप्रायवान् व्यवहारनयः । सतो हि द्रव्यत्मना पर्यायात्मना वा व्यवहारः, द्रव्यस्याऽपि षड्विधो व्यवहारः, पर्यायस्य च द्विविधो व्यवहारः । तदेतत्सर्वमेव व्यवहारो मन्यते । विशेषत एव व्यवहारोपपत्तिर्न सामान्यादिति विशेष एव प्रघानं न सामान्यमिति विशेष एव वस्तु न सामान्यं विशेषातिरिक्तस्य सामान्यस्याभावादिति तदाशयः । प्राधान्येन वर्त्तमानक्षणस्थायि पर्याय मात्रमभिमन्यमानो नय ऋजुसूत्रः । नातीतानागते वस्तुनी, असत्त्वादिति तदाशयः । यथा' इदानीं सुखमस्ति । अत्र क्षणस्थायी पर्याय एव प्राधान्येन विव
1
३२८