SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे सर्वनयाश्रवणाष्टकम् अथ शिष्यप्रबोधाय सर्वनयज्ञपृथङ्नयज्ञयो व्र्यवहारवै लक्षण्यमाह ३३३ लोके सर्वनयज्ञानां ताटस्थ्यं वाऽप्यनुग्रहः । स्यात्पृथङ्नयमूढानां स्मयार्तिर्वातिविग्रहः ॥ ४ ॥ लोके इत्यादि । लोके -लोकविषये, लोकव्यवहारे वा, सर्वनयज्ञानाम् - सर्वे सप्तापि नया नैगमादयस्तान् जानन्तीति ते ताहशास्तेषाम्, सर्वनयाऽभिमतत्वप्रकारेण वस्तुतश्वपरिच्छेदपटूनाम्, सर्वन्याश्रितानामित्यर्थः । ताटस्थ्यम् - तटस्थो मध्यस्थस्तस्य भाव स्तत्त्वमौदासीन्यम्, क्वाप्यपक्षपात इत्यर्थः । स्वपरयो रागद्वेषराहित्यमिति यावत् । सर्वन्याश्रितो हि तत्त्वज्ञतया एकान्तेन कमपि स्वं परं वा न मन्यते इत्यतोऽवसरे स्वस्मिन् परमिश्च समवृत्तिरेव भवति, यद्वा यत्र परे ममोक्तमेव साध्विति विवदन्ते तत्र सर्वनयज्ञः सर्वं साध्विति मत्वोदास्ते न तु विवादमेतीति भावः । वा- अथवा, अनुग्रहः - स्वकर्मवशगेषु जनेषु एकान्ताश्रयणेन वैषम्यं दृष्ट्वा ' अज्ञा इमे दयनीयाः कथमपि प्रबोधनीया' इत्येवमुपकारबुद्धिरपि, अपिः समुच्चये । स्यात् भवेत् । नन्वेकान्तवादिनां कथमित्याकाङ्गायामाह - पृथगित्यादि । पृथनय मुंढानाम् - पृथगितरनय निरपेक्षो यो नयो नयाभासः, निरपेक्षो हि नयो नयाभास एकान्तात्मकत्वादिति बोध्यम् । तेन तदाश्रयणेन मूढा नष्टबुद्धयस्तेषाम्, एकान्तवादिनाम् कदामहविलुप्तविवेकानाम्, स्मयार्तिः - स्मयो मदः, अहमेव तत्त्वविदित्यभिमानः, स एव दुःखमिमित्ताऽशुभ कर्मानुबन्त्रित्वादर्तिः
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy