________________
३२६
भद्रङ्करोदयाख्यव्याख्याविभूषिते
॥ सर्वनयाश्रयणाष्टकम् ॥
ननु पूर्णाष्टकादितपोऽष्टकान्तेनैतावता ग्रन्थेन सम्यग्ज्ञा निनं मुमुक्षुमुद्दिश्य साध्यं साधनं च प्रतिपादितम् । तत्राऽऽत्मस्वरूपेऽन्यपदार्थस्वरूपे च विभिन्ना नयाः, ततश्च विप्रतिपत्तिः । न च विप्रतिपन्नमतीनामात्मा साधनेन केनाऽपि साध्यः, आत्मस्वरूपस्यैवाऽनिर्णयात् । नह्यनिर्णीतं साध्यते इति शिष्यं व्यामोहमापन्नं बोधयितुं सर्वनयाश्रयणाष्टकं विवक्षुः सर्वनयाश्रयणमेत्र श्रेय इत्याह
-
·
धावन्तोऽपि नयाः सर्वे स्युर्भावे कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाऽऽश्रित ॥ १ ॥ घावन्त इत्यादि । सर्वे सकलाः, सर्वप्रकारा एवेत्यर्थः । अर्थवशादेवकारार्थी लभ्यते । न त्वेको द्वौ बहव एव वाऽपि तु सर्वे इत्याशयः । नया:- नीयते परिच्छिद्यते प्रतिपाद्यते वा प्रमाणपरिच्छिन्नस्याऽनन्तांशस्य वस्तुन इतरांश | ऽनपला पपूर्वक मंशविशेषो येनाध्यवसायविशेषेण स नयो मतवादविशेषः । स चाsनेक प्रकार इति नया नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूताख्याः सप्त । धावन्तः - स्वास्वाऽभिमतार्थे सत्वरं साडम्बरं दृढतरयुक्त्युपन्यासश्रमार्त्ता अपि, अपिना स्थिरस्य भावविश्रामोऽस्त्येवेति सूच्यते, धावनं तु स्वमतकदाग्रहादिति बोध्यम् । भावेवस्तुस्वभावे, वस्तुधर्मे इत्यर्थः । वस्त्वंश इति यावत् । कृतविश्रमाः - कृतो विहितो विश्रामो धावनविरामो यैस्ते तादृशा एव,
•