SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे तपोऽष्टकम् ३२५ श्रेणिप्राज्यसाम्राज्यसिद्धये-मूलानां धर्मवृक्षमूलभूतानामुत्तरेषां तेषामेव शाखापत्रादितुल्यानामुत्तरप्रकारभूतानां गुणानां दर्शनज्ञानचारित्रादीनां चरणसप्ततिरूपाणां समितिगुप्त्यादीनां करणसप्ततिरूपाणां च या श्रेणिरुत्तरोत्तरं विशुद्धिप्रकर्षत एकपतिबद्ध. तया विन्यस्तता तस्या मूलोत्तरगुणसमुदायस्य यत्माज्यं भूरि, सर्वात्मनेत्यर्थः । साम्राज्यं निर्द्वन्द्वपभुत्वं तस्य सिद्धये लाभाय, मूलोत्तरगुणानां साकल्येन सम्प्राप्यै इत्यर्थः । बाह्यम्-अनशनादिरूपम् , आभ्यन्तरम्-स्वाध्यायध्यानप्रायश्चित्तादिरूपम् , चः समुच्चये । तपः-कर्मतापन विधिम् , इत्थम्-दुानादिर्यथा न स्यात्तथेत्यर्थः । कुर्यात्-अनुतिष्ठेत् । तपसो हि मूलोत्तरगुणप्राप्तिः । अत एव तादृशतपोऽनुष्ठानपरायणो महामुनिर्भवति, महामुनिरेव चोक्तप्रकारेण तपोऽनुतिष्ठति चेत्युभयत्र तात्पर्यम् ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृ-कविरत्नपन्यासप्रवर--श्रीयशोभद्रविजयगणिवरशिष्यपन्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायांतपोऽष्टकं नामैक त्रिंशत्तममष्टकम् ॥ २६ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy