________________
भद्रकरोदयाख्यव्याख्याविभूषिते
1
वशादिष्टसिद्धिर्न स्यादिति भावः । तथा, येन - यादृशेन तपसा, योगाः - स्थानवर्णादयः प्राख्याख्याता, न-नैव, हीयन्ते - अपकर्ष यान्ति, अशक्त्यादिना तदपकर्षसम्भवात् ततश्चेष्टविघ्नम् नायोगिनो मुक्तिरिति भावः । यद्वा योगाः कायवाङ्मनौयोगा न हीयन्ते न हीना भवन्ति, अशुभा योगा यथा न स्युरिति यावत् । अशुभो हि योगोऽशुभकर्मबन्धनिमित्तमिति तस्मिन् सति कुतो मुक्त्याशाऽपीति भावः । वा तथा, इन्द्रियाणि - चक्षुरादीन्द्रि याणि, न-नैव, क्षीयन्ते - नश्यन्ति इन्द्रियाणि श्रवणदर्शनादिभिधर्मवृद्धिहेतव इति तदभावे साध्यस्य धर्मस्य का चर्चेति भावः । एवञ्च यत्किञ्चिद्वा तपो भवतु, तच्चेच्छुमध्यानसाधनं योगाविरोधि इन्द्रियशक्यविघातकं च भवति तदोपादेयमन्यथा हेयम् । तादृशं च तपो जिनोपदिष्टमेवेति यत्र ब्रह्म जिनाच चे "त्याद्युक्तं न तु जिनभक्तिवशादिति स्वस्मिन् पक्षपातशङ्का निराकृता वेदितव्या ॥७॥ तदेवमुक्तप्रकारेण तपो निरूप्य सम्प्रति शिष्यप्रबोधाव तत्फलमुपवर्णयन्नुपसंहरति
64
३२४
,
·
मूलोत्तरगुण बेणिप्राज्य साम्राज्यसिद्धये ।
बाह्यमाभ्यन्तरं चेत्थं तपः कुर्यान्महामुनिः ॥ ८ ॥ इति महामहोपाध्याय - श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे तपोऽष्टकं नामैकत्रिंशत्तममष्टकम् ॥ ३१ ॥
मूलोत्तरेत्यादि । महामुनिः- महान् तपोरहस्यज्ञत्वेन तपस्त्रिषूत्कृष्टो मुनिः सम्यग्ज्ञानसम्पन्नः साधुर्महामुनिः, मूलोत्तरगुण