________________
ज्ञानसारे तपोऽष्टकम्
३२३
9
"
यत्रेत्यादि । यत्र - यस्मिन् तपसि, ब्रह्म - ब्रह्मचर्यम्, नवविध ब्रह्मगुप्तरित्यर्थः । जिनाच - जिनो वीतरागस्तस्याऽर्चा पूजा पूजाsष्टकोक्तप्रकारेण द्रव्यतो भावतश्च, आज्ञापालनेन जिनाराधनं वा, चः समुच्चये । तथा-पुनः कषायाणाम् - क्रोधादिचतुष्टयानामुपलक्षणात्वाद्रागादीनां च इतिः - हानिः उच्छेद इत्यर्थः । जिनाज्ञाजिनोपदेशः, सानुबन्धा - अनुबन्धोऽनुसरणं तेन सह वर्त्तत इति सा तादृशी, अनुसृतेत्यर्थः । चः समुच्चये । तत् - तादृशम्, तपःआभ्यन्तरं प्रायश्चित्तादिकं बाह्यमनशनादिरूपं च तपः, शुद्धम् - निरपायम्, कर्मतापनात्पारमार्थिकमित्यर्थः । इष्यते - इष्टम्, प्रकारान्तरं तु सापायमित्यशुद्धमपारमार्थिकमित्याशयः । ब्रह्मचर्यजिनपूजात्मकं कषायोच्छेदसमर्थं जिनाज्ञाऽविरोधि च तप एव शुद्धमिति निष्कर्षः ॥ ६॥
"
स्वस्थ जिन भक्तत्वादेवमुक्तिरिति पक्षपातारोपमाशङ्क्य शिष्यप्रबोधाय ताटस्थ्येनाsse -
तदेव हि तपः कार्य दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते क्षीयन्ते नेन्द्रियाणि च ॥ ७ ॥
तदेवेत्यादि । तत् - तादृशम्, तपः- बाह्यमाभ्यन्तरं चोक्तप्रकारं तप एव, एवकारेण प्रकारान्तरस्य पञ्चाग्न्यादे दुर्ध्यानादिनिमित्तस्य व्यवच्छेदः कार्यम् - अनुष्ठेयम्, यत्र - यस्मिन् तपसि अनुष्ठीयमाने, दुर्ध्यानम् - पापक्षुत्तृडादिभिरुपसर्गादिभि र्वा दुष्टं ध्यानमार्त्तरौद्रध्यानम्, नो-नैव, भवेत् - जायेत, अन्यथा दुर्यान•