________________
३२२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
उक्तप्रकारेण तपसः सुखरूपत्वमुपपाद्य शिष्यमतिदावर्याय बौद्धान्निर्ल्सयन्नाह
इत्थं च दुःखरूपत्वात्तपो व्यर्थमितीच्छताम् । बौद्धानां निहता बुद्धि बौद्वानन्दाऽरिक्षयात् ॥५॥
इत्थमित्यादि । इत्थम्-उक्तोपपत्त्योपेयमधुरत्वत आनन्द. वृद्धिप्रकारेण च, चोऽन्वाचये । बौद्धानन्दाऽपरिक्षयात्-बौद्धस्य बुद्धिविषयस्य, आन्तरिकस्येत्यर्थः । आनन्दस्य सुखानुभवस्याऽपरिक्षयादुपेयमधुरत्वतो हेतोरनिवृत्तेः प्रत्युत वृद्धेश्च हेतोः, दुःख. रूपत्वात्-दुःखं शरीगदिकष्टं रूपं स्वभावो यस्य तस्य भावस्तत्वं ततः, दुःखानुभवात्मकत्वाद्धेतोरित्यर्थः । तपा-अनशनावात्मकं तपः, व्यर्थम्-निष्फलम् , नेष्ट साधकमित्यर्थः । इति-उक्तप्रकारेण, इच्छताम्-मन्यमानानाम् , बौद्धानाम्-ताथागतानाम् , बुद्धिःमतिः, सिद्धान्त इत्यर्थः । निहता-निराकरणान्नाशिता, निष्प्रमा. णेति यानत् । नानुभवसाक्षि कमलपितुं शक्यमिति भावः । तपो बलीवर्दादिकष्टवत्कर्म विराकफलमेव, न तु ततो मुक्तिरिति बौद्धसिद्धान्तः । स्वमते तु तपः क्षायोपशमिकं ज्ञानवैराग्यशमसमन्वि. तत्वात्सुखरूपं कर्मक्षयहेतुश्चेति बोध्यम् ॥ ५ ॥
ननु लोके विविधं तपस्तप्यमानं दृश्यते, तत्र किमुपादेयमिति शिष्यजिज्ञासां समाधातुमाह
यत्र ब्रह्म जिनाऽर्चा च कषायाणां तथा हतिः । सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिष्यते ॥ ६ ॥