SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२० भद्रङ्करोदयाख्यव्याख्याविभूषिते धनार्थिनां यथा नास्ति शीताऽऽतपादि दुःसहम् । तथा भवविरक्तानां तत्वज्ञानार्थिनामपि ॥ ३ ॥ धनार्थिनामित्यादि । यथा-येन प्रकारेण, धनार्थिनाम्बनेन स्वर्णरत्नाद्यात्मकेन वित्तेन, धनाभिन्न इत्यर्थः, अभेदे तृतीया। मर्थः प्रयोजनं धनार्थः, सोऽस्त्येषामिति ते तादृशास्तेषां धनार्जनप्रवृत्तिमताम् , शीतातपादि-शीतं शैत्याधिक्यजनकहिमवातादिकम्, भातपो धर्मतापाद्याधिक्यजनको रविकरादिः, आदिना क्षुत्तष्णादयः, तदेतत्सर्वम् , यदन्येषां दुःसहं तदपीत्यर्थः । दुःसहम्दुःखेन सबते मृष्यते इति तादृशम् , कष्टाधिक्य करमित्यर्थः । नास्ति-न भवति, यथाधनार्थिनो धनार्जने नान्तरीयकतया शीतातपादिकमन्येषां दुःसहमपि सुखं सहन्ते, लाभाधिक्यात् शीतातपादिकष्टं कष्टं न गणयन्तीत्यर्थः । तथा-तेन प्रकारेण, भवविरक्तानाम्-भवात्संसाराद् दुःसहदुःखनिमित्तत्वेनाऽसारत्वबुद्धया। विरकानां विप्रीतोद्विग्ननिर्विण्ण चित्तानाम् , अत एव तदुच्छेदा म्, तत्वज्ञानार्थिनाम्-तत्त्वं पारमार्थिकमात्मस्वरूपं तस्य ज्ञानं साक्षत्कारस्तेनाऽर्थः प्रयोजनमस्त्येषां तेषां तत्त्वज्ञानात्यै कृतप्रयासानाम्, अपिना धनादिलौकिकलाभे यदि शीतातपादि न दुःसहं तर्हि तत्त्वज्ञानात्मकसुदुर्लभाऽलौकिकलामे तन्न दुःसह मिति किमु बक्तव्यमिति सूच्यते । शीतातपक्षुत्तृडनशनादिसहनात्मकं तपो दुःसहं नास्तीति सम्बन्धनीयम् । फले द्वेषाद्धयुपाये द्वेषः । तुल्ययुक्त्म फलेऽनुरागात्तदुपाये उत्सर्गतोऽनभिमतेऽपि न द्वेष इति दुःखबुद्ध्यभाव एव मुखं तपसीत्याशयः ॥ ३ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy