________________
शानसारे तपोऽष्टकम्
आनुस्रोतसिकी वृत्ति र्चालानां सुखशीलता । प्रातिस्रोतसिको वृत्ति ििननां परमं तपः ॥ २॥
आनुलोत सिकीत्यादि । आनुस्रोतसिकी-स्रोतांसीन्द्रियाण्यनुलक्ष्याऽनुस्रोत इन्द्रियाऽनुकूलता, तत्पयोजनमस्येत्यानुस्रोतसिकी, इन्द्रियानुकूल्येनेत्यर्थः । वृत्तः-प्रवृत्तिः, स्रक्चन्दनाङ्गनायुपमोग इति यावत् । बालानाम्-बाला यथेन्द्रियानुकूलपवृत्त्या सुखं यान्ति, तादृशवाहाला इव बाला. अज्ञानिनस्तेषाम् , अनात्मज्ञानामित्यर्थः, सुखशीलता-सुखं शीलयन्त्यभ्यस्यन्ति, मन्यन्त इत्यर्थः, तादृशाः सुखशीलास्तद्भावस्तत्ता सुखमानित्वम् , सुखा. भिमान इत्यर्थः । इन्द्रियानुकूलप्रवृत्ती बालाः सुखं मन्यन्ते, न तु तत्र वस्तुतः सुखम् , क्लेशानुविद्धत्वाक्लेशपरम्पराहेतुत्वाचेति भावः। ननु तर्हि ज्ञानिनां किमित्यपेक्षायामाह-प्रातिस्रोत्तसिकी-इन्द्रिवपातिकूल्येनेत्यर्थः, वृत्तिः-प्रवृत्तिः, अनशनादिविषयत्यागादिस्वाध्यायध्यानप्रायश्चित्ताधनुष्ठानम् , लक्षण या तद्रूपमित्यर्थः । नक वशनादिकमिन्द्रियसुखावह मिति बोध्यम् । परमम्-कामनारहितवेन कषायादिनाशकत्वेनोत्कृष्टम् , तपः-तपश्चरणम् , ज्ञानिनाम्-सम्यग्ज्ञानवताम् , सुखशीलतेति सम्बध्यते । ज्ञानिनत्तप एव सुखं मन्यन्ते, तस्य शाश्वताऽखण्डसुखहेतुत्वात्तत्र सम्भवकृष्टमपि न गणयन्ति लौकिकसुखनान्तरीयककष्टं वालानामिवेति मावः ॥ २ ॥ - ननु तपः कष्टं दुष्करमिति सर्वजनप्रतीतम् । तत्र कथंकस्यापि मुखमिति शिष्यशङ्कां निरस्यन्नाह