SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ૩૮ भद्रङ्करो दयाख्यव्याख्याविभूषिते तापयति तत्तपः, तच ज्ञानमेव । यदुक्तम् - "ज्ञानाऽग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन " इति । तस्माज्ज्ञानमेव तपः । एवकारेण सकामस्य लोकव्यवहारानुरोधेन च कृतस्य तपसो व्यवच्छेदः, तस्य कषायोदय प्रयोज्यत्वादाखत्ररूपतया कर्मबन्धप्रयोजकत्वात् । तत्र हि तपोव्यवहारोऽनशनाद्यात्मकतयोपचारत एव । निश्चयतस्तु कर्मतापनरूपस्य तपः पदप्रवृत्तिनिमित्तस्य तत्राSभावान्न तत्तप इति बोध्यम् । तत्तपश्चाऽऽभ्यन्तरं बाह्यं चेति द्विविधम्, तत्र कितपो ज्ञानात्मकमिति शिष्या जिज्ञासा निवृत्तये आइ-तदित्यादि । तत् - ज्ञानात्मकं तपः, आभ्यन्तरम् - अन्तरन्तःकरणमात्मानं वाऽभिलक्ष्य भवतीत्याभ्यन्तरं स्वाध्यायध्यानप्रायश्चित्तादिरूपं भावात्मकमेव । एवकारेण बाह्यव्यवच्छेदः, तस्य क्रियारूपत्वाद्भावत पोहेतुत्वाच्च द्रव्यरूपत्वाच्च । भावस्य हेतुर्हि द्रव्यमिति बोध्यम् । इष्टम् - मतम् । तस्यैव साक्षात्कर्मतापकत्वादिति भावः । ननु तर्ह्यलंबा ह्येन तपसेति चेन्न । तदाह-बाह्यम् - बहिर्ल क्ष्यत्वाद्वहिर्भवं शरीरादिकष्टात्मकमनशनादिरूपं द्रव्यात्मकं तप, तदुपबृंहकम् - तस्य ज्ञानात्मकस्योऽऽभ्यन्तरस्य तपस उपबृंहकं पोषकम् । एवं भावतपस उपबृंहकतया बाह्यतपोऽपि कारणे कार्यो. पचारातपः । तदनुकत्वे तु कष्टपात्रं कर्मवापनानुपयोगित्वादित्याशयः ॥ १ ॥ · ननु किमिति स्रक्चन्दनाङ्गनाद्युपभोगसुखं विहाय कष्टात्मकं तपोऽनुष्ठेयमिति शिष्यशङ्कां समाधित्सुराह
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy