________________
ज्ञानसारे तपोऽष्टकम्
३१७
योगिनो
ध्यानिनः उक्तप्रकारध्यानशीलस्योक्तगुणविशिष्टस्य घ्यातुः । सदेवमनुजे - देवै र्मनुजैश्व सहवर्त्तत इति स देवलोको मर्त्यलोकश्च तस्मिन् अपिना दुःखात्मके नारकादौ तु कथैव के ति सूच्यते । हि-निश्चयेन, उपमा - सादृश्यम्, न - नैव, अस्तीति शेषः । उक्तगुणविशिष्टो ध्याताऽनुपम इति सर्वोत्कृष्ट इत्याशयः । चतस्तादृशध्यान सम्पन्नो नियागप्रतिपत्तिमानिति तात्पर्यम् । अत्र चोकगुणविशिष्ट एवं ध्यातोक्तध्यानवानित्यपि सूच्यते || ६ || ७ ||८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृ - कविरत्नपन्यासप्रवर - श्रीयशोभद्र विजयगणिवर शिष्यपन्यास प्रवर श्री शुभङ्कर विजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां ध्यानाऽष्टकं नाम त्रिंशत्तमाष्टकम् ॥ ३० ॥
-
॥ तपोऽष्टकम् ॥
अथ नियागाऽङ्गतया ध्यानसहकारितया च शिष्यप्रबोधाय तपोऽष्टकं विवक्षुरादौ तपो निर्वक्ति
ज्ञानमेव बुधाः प्राहुः कर्मणां तापनात्तपः । तदभ्यन्तरमेवेष्टं बाह्यं तदुपबृंहकम् ॥ १ ॥
,
ज्ञानमेवेत्यादि । बुधाः- तपोरहस्यज्ञा मुनयः, ज्ञानम् - सम्यज्ञानमेव, कर्मणाम् - ज्ञानावरणादीनामष्टविधानां कर्मणाम् तापनातू - दहनात्, नाशनादित्यर्थः । परिशाटनान्निर्जराणाद्वेति यावत् । तपः- तपः पदवाच्यम्, प्राहु:- प्रकर्षेण प्रतिपादयन्ति यद्धि कर्म