SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१६ भद्रङ्करोदयाख्यव्याख्याविभूषिते विमुखमनस इत्यर्थः । धारणारयस्य मन्दत्वे मनसो बलवत्वादहि. विषयवृत्तिः सम्भाव्यत इति धारणाधारा वेगवतीष्टेति बोध्यम् । प्रसन्नस्य-साध्यसाधनोत्साहसद्भावात्कायादिक्लेशाऽननुभवाद्विकसितचेतसः । न हि खिलेन दुर्लभं लभ्यमिति भावः । अप्रमत्तस्यकर्तव्येऽतीचारो मा प्रसाङ्गीदिति प्रमादरहितस्य, सततं कर्त्तव्यविषयोपयोगवत इत्यर्थः । प्रमत्तस्य ह्यविध्यनुषलाक्रिया विशीर्यत इति भावः । ध्यानसहचरोक्तसकलविशेषणफलमाह-विशेषणमुखेन-चिदित्यादि। चिदानन्दसुधालिहा-चिद्विशुद्धमात्मस्वभावभूतं चैतन्यं च आनन्दस्तादृशचित्सहचरोऽखण्डानन्दश्च तावेवाऽ. लौकिकतृप्तिपदत्वात्सुधाऽमृतं तल्लेढीति तस्य, विशुद्धचिन्मग्नस्व तादृशचिताऽऽत्मस्वभावात्मकानन्दमनुभवितुश्चेत्यर्थः । यदुक्तम्"प्रशान्तात्मा विगतभी ब्रह्मचारिव्रते स्थितः । मनः संयम्य मञ्चितो. युक्त आसीत मत्पर" इति । ईश आत्माराम एव स्यादित्यत आह-साम्राज्यमित्यादिना । अन्त:-आत्मन्येव, एवकारेण बहिःसाम्राज्यव्यवच्छेदः। तस्य मप्रतिद्वन्द्वत्वादिति बोध्यम् । अप्रतिद्वन्द्वम्-अविद्यमानः द्वन्द्वो वैरभावो यत्र तादृशम् , एकच्छत्र. मित्यर्थः । विशुद्धमिति यावत् । साम्राज्यम्-आत्मस्वभावात्मकराज्यचक्रित्वम् , अनुभवान्तरानन्तरितात्मस्वभावानुभवमित्यर्थः । वितन्वतः-कुर्वतः, आत्ममग्नस्येति समुदायनिष्कर्षः । यद्वाअन्तः-मनस्येव, अप्रतिद्वन्द्वम्-रागद्वेषादिद्वन्द्ववर्जितं विषयान्तरध्यानानन्तरितं वा, साम्राज्यम्-ध्यातृध्येयध्यानकतात्मकराज्यचक्रित्वम् , तादृशभ्यानमग्नताम्, वितन्वतः-साधयतः इत्यर्थः ।
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy