________________
शाणसारे ध्यानाऽष्टकम्
३१५
तस्येति मिलितार्थः । तथा, स्थिरात्मन:-स्थिर एकत्र दृढवद्धलक्ष्य आत्मोपलक्षणत्वान्मनोव्यापारो यस्य तस्य तादृशस्य, उक्त. ध्यानसाधनकृतनिश्चयस्य तादृशध्यानसाधने उद्वेगशून्यस्य चेत्यर्थः । यो घल्पकष्टतोऽप्युद्विजत्यनिश्चयात्मा च न तस्य ध्यानलाभः, प्रत्युतोद्वेगाद् ध्यानभङ्ग एवेति भावः। तदेवमाभ्यन्तरगुणानुक्त्वा बहिर्गुणानाह-सुखासनस्येत्यादिना । सुखासनस्य-सुखं सुखकरं ध्यानाऽनुगुणमासनं कुशकम्बलाद्यात्मकं पर्यङ्कासनादिकं च ख्यातं यस्य तादृशस्तस्य । श्रासनस्य कष्टप्रदत्वे ध्यानभासम्भवादिति भावः । यदुक्तम् - " शुचौदेशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नाऽत्युच्छ्रितं नातिनीचं चैलाजिन कुशोत्तरम् । तत्रैकाग्रं मनःकृत्वा यतचित्तेन्द्रियक्रियः । उपाविश्याऽऽसने युञ्ज्याद योगात्मविशुद्धये" इति। ध्यानाऽनुगुणशरीरस्थितिमाह-नासेत्यादि । नासाग्रन्यस्त. नेत्रस्य-नासाग्रे नासिकाया अप्रभागे न्यस्ते स्थिरिकृते नेत्रे येन तस्य तादृशस्य, दिग्विलोकनेन ध्यानभङ्गो मा प्रसाङ्गीदितिकेवलं नासाग्रमवलोकमानस्येत्यर्थः यदुक्तम् - "समं कायशिरोग्रीवं धारयत्नचल शिरः। सम्प्रेक्ष्य नासिकाग्रं स्वं दिश श्वाऽनवलोकयन्नि"ति। योगिन:-योगाष्टकोक्तप्रकारेण वर्णादियोगवतः, योगं विना मनोवृत्तिनिरोधासम्भवादिति भावः । तथा, धारणाधारया-धारणा लक्ष्ये मनसः स्थिरबद्धता, तस्या धारया सदृशाऽपरापरपरिणामप्रवाहतः, रयात्-जवात् , " स्यः स्यदः। जव" इत्यमरः । तारशधारावेगादिति हृदयम् । रुद्धबाह्यमनोवृत्तेः-रुद्धा यता वालानात्मविषया मनोवृत्तिश्चित्तप्रवृत्तिर्येन तस्य तादृशस्य, बहिर्विषय