SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते साम्राज्यमप्रतिद्वन्द्वमन्तरेव वितन्त्रतः । — ध्यानिनो नोपमा लोके सदेवमनुजेऽपि हि ॥ ८॥ इति महामहोपाध्याय श्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारे . ध्यानाऽष्टकं नाम त्रिंशत्तममष्टकम् ॥ ३० ॥ जितेन्द्रियस्येत्यादि । जितेन्द्रियस्य-जितानि वशीकृतानि मनिष्टप्रवृत्तिनिरोधपूर्वकेष्टप्रवृत्तिमन्ति कृतानि न तु सर्वथा निरुद्धानि इन्द्रियाणि चक्षुरादीनीन्द्रियपदवाच्यानि येन स तादृशस्तस्य, बान्तस्येत्यर्थः। अवशेन्द्रियस्य हि न ध्यानलाभः । यदुक्तम्" इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन" इति, " इन्द्रियाणां हि चस्तां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायु विमि. वाऽम्भसी "ति च । तथा, धीरस्य-धैर्यशालिनः, उपसर्गादो भवानविघ्ने सत्यप्यप्रचलितस्येत्यर्थः । जितेन्द्रियस्याऽप्युपसर्गाद्यमहिष्णुत्वे ध्यानालामादिति भावः। तथा, प्रशान्तस्य-निरुद्धतृष्णस्य, तृष्णायां हि सत्यां धीरस्याऽपि मनश्वाञ्चल्य द् ध्यान मनापतेरिति तृष्णानिरोध एव विशुद्धध्यानलाभः । यदुक्तम्" सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वान शेषतः । मनसैवेन्द्रियग्राम विनियम्य समन्ततः ॥ शनैः शनैरुपपरमेद् बुद्धयः धृतिगृहीतया । आत्मसंस्थं मनःकृत्वा न किञ्चिदपि चिन्तयेत् ॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्तनो नियम्यैतदात्मन्येव वशं नयेत् ।। प्रशान्तमनसं ह्येनं योगिनं मुख मुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषमि "ति । धीरप्रशान्तस्य नवमरसविभावलक्षणलक्षिः
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy