SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ -मानसारे ध्यानाऽष्टकम् ध्यानवर्जितं तपो न फलदमिति शरीरपीडामात्रफलमिति ध्यानविहीनं कष्टात्मकं तप इत्यर्थः । यदुक्तम्-" ध्यानविहीनं सर्वमनेन मुक्ति न भवति जन्मशतेने"ति । अभव्यानाम्-न भव्या मुक्तियोग्या अभव्यास्तेषामपि, अपिना बाहुल्येन तपःपरायणानां भव्यानां तु तल्लभ्यमेवेति सूच्यते । भवे-इह संसारे, नो-नैव, दुर्लभम्दुःसाध्यम् । यदि हि ध्यानविहीनेन ताहशतपोमात्रेण कृतार्यता स्यात्तदाऽभव्यानामपि तादृशतपसो भावात्तेषामपि तीर्थकृन्नामकर्मबन्धद्वारा तीर्थकृत्त्वं मुक्तिश्च स्यात् । एवं च जीवस्य भव्याभव्यवि. भागो व्याहत एव स्यादिति ध्यानसहितेनैव तादृशतपसा कृतार्थतेति श्रुताशयः। तादृशतपश्च भव्यानामेव नामव्यानाम् । तेषामभव्यत्वपरिणामवशात्तथाविधध्यानानुगुणाऽऽत्मवीर्याऽभावात् । एष एवं भव्याऽभव्ययोर्विशेषः । ततश्च यथा दण्डस्य भ्रमेश्च फलं घटः, तथा विंशतिस्थानकदेानस्य च फलमापत्तिसम्पत्ती इति न विप्रतिपत्त्यवसरलेशोऽपीति तात्पर्यम् ॥ ५ ॥ शिष्यप्रतिबोधायेदृशध्यानानुगुणगुणविवरणपूर्वकं त्रिभिःश्लोकैानिनं स्तुवन्नुपसंहरति - जितेन्द्रियस्य धीरस्य प्रशान्तस्य स्थिरात्मनः । सुखासनस्य नासाग्रन्यस्त नेत्रस्य योगिनः ॥६॥ रुद्धबाह्यमनोवृते र्धारणाधारया रयात् । प्रसन्नस्याऽप्रमत्तस्य चिदानन्दसुधालिहः ॥ ७॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy