________________
शानसारे ध्यानाऽष्टकम्
अवस्थाऽऽत्मसाक्षात्कारात्मिकेति तत्राऽखण्डानन्दानुभव एव न तु दुःखावसरः, दुःखहेतो मनोव्यापारस्य निरोधादित्याकूतम् ॥ १.
साम्प्रति शिष्यजिज्ञासा निवृतये ध्यात्रादीन् विवृण्वबेकता निरूपयति
ध्याताऽन्तरात्मा ध्येयस्तु परमात्मा प्रकीर्तितः । ध्यानं चैकाग्यसंवित्तिः समापतिस्तदेकता ॥ २॥
ध्यातान्तरात्मेत्यादि । अन्तरात्मा-अन्तः शरीरान्तःस्थाऽs. स्मगुणाभिसमग्रोऽन्तर्मुखप्रवृत्तिक आत्मा, सम्यग्ज्ञानादिगुणवानास्मेत्यर्थः । ध्याता-ध्यानव्यापाराश्रयः, ध्यातेत्येवमित्यर्थः । प्रकी. तित:-प्रकर्षेणेतरध्यातृभ्यः प्रशस्यरूपेण प्राधान्येन च कीर्तितो गीतः । निश्चयतोऽन्तरात्मैव ध्याता, अन्यस्तु ध्यातृगुगाऽपकर्षा व्यवहारत एव ध्यातेति स न ध्याताऽपशस्यत्वात् । यद्वक्ष्यतीहैव" कष्टमात्रं स्वभव्यानामपि नो दुर्लभं भवे " इति बोध्यम् । तुः पुनरथे, पुनः, परमात्मा-परमःपारमार्थिकगुणसमग्रत्वात्सर्वोत्कृष्ट मात्मा सिद्धिप्राप्तः क्षीणघातिकर्मा वाऽऽत्मा, ध्येया-ध्यात योग्यः, प्रकीर्तितः । तद्भिन्नस्य ध्येयस्याऽपकृष्टगुणत्वेनेष्टाऽसाथकत्वेन हेयत्वात्परमात्मैव ध्येयः प्रकीर्तित इत्याशयः । एकाग्यसंविचिः-एकमेवाप्रमुपलक्षणवादग्रस्थवद्विजातीयज्ञानाऽव्यवधानेन मुहुर्मुहुर्विषयो यस्यां सैकामा तुरयविषया संवित्ति निम्, विजातीयज्ञानानन्तरिता सजातीयज्ञानघारेत्यर्थः । ध्यानम्-ध्यानअचनिविषयः । चः समुच्चये। तदेकता-तेषां ध्यात्रादीनां त्रयाणा